________________
१७५ ३ अनिष्टादिकारिणामित्याधिकरणम्। [१ 3 पा. १ स.१२
किंच । रमणीययानिः किमाकस्मिकी सकारणा व।। नाद्या वेदवादिनाम् । द्वितीये तु स्वकर्मणा पितृलोक इति वस्वादित्यरूपता च वक्तव्या । प्रजामनु प्रजायन्ते स्मशानान्तक्रियाकृत इति च । विद्या मां सोमपा (भ.गी. ९।२०) इत्यादिनेन्द्रलोकभोगानन्तरं तथैव पुनर्भवनं च ५ वक्तव्यम्। न च सर्वेषामैक्यम् । भिन्नरूपत्वात् । तस्मात्कर्मकर्तृवैचित्र्येण
श्रुतिस्मृतिभेदाः समर्थयितव्या नत्वेकमपरत्र निविशते। उपरोधप्रसंगात् । तथा च प्रकृतेप्यनुशयाभावे भक्षणभवनयोर्नियमो न स्यात् । ब्राह्मणादीनामप्यन्ने बलिहरणे श्वचण्डलयोर्भक्षणम् । ब्राह्मणभक्षणेपि मलभावे
शूकरभक्षणम् । अनुशयस्य नियामकत्वे तुषादिष्वन्नभाव एव यावत् समी१० चीनरेतोभावः । तस्मादुपलक्षणतैव चरणश्रुतेर्युक्ता । तस्मादनुशयसहित एव वृष्टिभावं प्राप्नोतीति सिद्धम् ॥ ३१।१० ॥
सुकृतदुष्कृते एवेति तु बादरिः ॥ ३१॥११॥
फलांश एवानुशय इति तु स्वमतम् । कर्म फलं च द्वयमेवेश्वरेच्छया नियतम् । कर्म पुनर्भगवत्स्वरूपमेव ब्रह्मवादे । सोभिव्यक्तः फलपर्यन्तं १५ तदादिसंयोग इति स्वमतम् । अन्तसंयोगपक्षमाहैकदेशित्वज्ञापनाय । सुकृ
तदुष्कृते एव विहितनिषिद्धकर्मणी अनुशय इति बादरिराचार्यों मन्यते । तेन मोक्षपर्यन्तमनुशयोनुवर्तिष्यत इति सूत्रफलम् । तुशब्देन निरनुशयपक्षशङ्कव नास्तीत्युक्तम् । एवं द्वितीयाहुतिर्निर्धारिता ॥ १।११॥२॥
३ अनिष्टादिकारिणामित्यधिकरणम् । २० अनिष्टादिकारिणामपि च श्रुतम् ॥ ३१॥१२॥
तुल्यत्वेन विचार ऐक्ये वा पञ्चाहुतिधममार्गयो: सोमभावं गतस्य पुनरावृत्त्युपसंहार उपलक्षणेनापि पापाचारवतामुपसंहारदर्शनात्तेषामप्याहुतिसंबन्धो धूममार्गश्च प्राप्नोति । तन्निराकरणार्थमधिकरणारम्भः । नन्व
निष्टादिकारिणामपि सोमभावः श्रूयते । इष्टादिकारिव्यतिरिक्तानां-ये वैके २५ चास्माल्लोकात्पयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ( कौ० १।२) इति
कौषीतकिनः समामनन्ति । अत्र च कप्यां योनिमापद्यन्त इति पर्यवसा