________________
अ. पा. १ सु.]
अणुभाग्यम् ।
१७४
चरणादिति चेन्नोपलक्षणार्थेति कार्णाजिनिः॥१॥९॥
किंचिदाशङ्क्य परिहरति । ननु नात्रोत्तमजन्मार्थमनुशयोपेक्ष्यते चरणादेव भविष्यति । तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् (छां० ५१०।७ ) इत्यादिना यः पूर्वजन्मनि ५ विहिताचरणं करोति स उत्तमं जन्म प्राप्नोति । यस्तु निषिद्धाचरणं करोति स श्वादियोनिं प्राप्नोतीति-साधुकारी साधुर्भवति (बृ. ४।४।५) इत्यादिश्रुत्या च प्रतिपाद्यते । प्रकृते तु तस्य रमणीयचरणस्य चरणादेव तस्य सम्यग् जन्म भविष्यति किमनुशयसहभावेनेति चेत् । न । चर
णश्रुतौ या योनिरुक्ता सोपलक्षणार्था । अनेन पूर्वजन्मनि समीचीनं • कृतमिति ज्ञापिका । न तु तस्मिञ्जन्मनि समीचीनकरणे नियामिका ।
अन्यथा ब्राह्मणानां निषिद्धकरणं न स्यात् । तस्मादनुशयोपेक्ष्यते ज्ञानोपयोगार्थमिति कार्णाजिनिराचार्यों मन्यते ।
___ कार्णाजिनिग्रहणं पञ्चाग्निविद्यायां भिन्नप्रकारत्वज्ञापनार्थम् । तस्मादस्य स्वमते भिन्नत्वान्न शङ्का न चोत्तरम् । नहि पञ्चामिविद्यायां १५ पुरुषादन्यभावः संभवति । प्रकरणपरिगृहीता श्रुतिर्नान्यत्र न्यायसंपादिका ॥ ३॥१।९ ॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ ३॥१॥१०॥
नन्वेवं सति चरणश्रुतिरनर्थिका । ज्ञापनायां प्रयोजनाभावात् । अतो विधायकत्वं श्रुतरिष्टानिष्टफलबोधकश्रुतिवत् । अतः कर्मतारतम्येन २० फलविधानान्निष्कामकर्मकर्तुानोपयोगिदेहविधानं भविष्यतीत्यनुशयसहभावो व्यर्थ इति चेन्न । तदपेक्षत्वात्। धूमादिमार्गस्य तस्याः श्रुतेरपेक्षत्वाकाम्येष्टादिकारिणः फलभोगानन्तरमुत्पत्तौ सुखानन्तरं दुःखामिति न्यायेन पापस्यैवोपस्थितत्वादसमीचीनशरीरप्राप्तिर्मा भवत्विति रमणीयानुष्ठातणां रमणीयशरीरमाप्तिरेव बोध्यते । न न्यायेनासमीचीनशरीरमिति । तस्मा२५ दन्यनिषेधार्थं सार्थकत्वान्नानुशयप्रतिषेधिका ।
24-Com. न्यायेन after न ।