________________
१७३
२ कृतात्ययाधिकरणम्। अ.3 पा.१ सू. ८
२ कृतात्ययाधि णम् । कृतात्ययेनुशयवान दृष्टस्मृतिभ्यां
यथेतमनेवं च ॥३१॥८॥ प्रथमाहुतिः सफला विचारिता । द्वितीयां विचारयितुमधिकर५ णारम्भः । सोमस्य पर्जन्यहोमे वृष्टित्वमिति । सोमादृष्टिभावे रूपरसादीनां हीनतया प्रतीयमानत्वाद्यागस्यावान्तरफलं तत्र भुङ्क्त इति निश्चितम् । तत्र संशयः। किं सर्वमेवावान्तरफलं तत्र भुक्ते। आहोस्विदनुशयवान् वृष्टिर्भवतीति । तद्वासनयाग्रिमजन्मानि सदाचारयुक्त एव स्यादिति । आचारहीनं न
पुनन्ति वेदाः (व. स्मृ. ) इति बाधोपलब्धेः । अतो विचार उचितः । १० तत्रावान्तरफलस्यावशेषेवान्तरफलत्वबाधाज्ज्ञानौपायकशरीरभावादेव स
दाचारासद्धेः प्रयोजनाभावाञ्च निरनुशय एव वृष्टिभावं प्राप्नोतीत्येवं प्राप्ने । उच्यते । कृतात्ययेनुशयवान् कृतस्य सोमभावस्यात्यये नाशे सति अनुशयवानवान्तरफलसाधकलेशसहित एव वृष्टिभावं प्राप्नोति। कुतः ।
दृष्टस्मतिभ्याम् । दृष्टं तावद् भोगसाधकमलद्रव्यनाशेपि भोगसाधकतादृश१५ देहवस्त्रादिसहित एव तस्मात्स्थानादपगच्छति । अन्यथा सद्य एव देह
पातः स्यात् । अतो यथा लोके सानुशयस्तथात्रापि । स्मृतिश्च-यद्यत्र नः स्वर्ग्यसुखावशेषितं स्विष्टस्य दत्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज्जन्म नः स्याद्वर्षे हरिर्यद्भजतां शं तनोति ( भा० ५।२०।२८) इति देवगाथा ॥अतो ज्ञानौपयिकजन्मानुशयवत एव भवति । अन्यथा पूर्व२० जन्मस्मृत्यभावे विषयासक्तिः प्रसज्यते ।
नन्वनुशयसहकृत एव जीवो नाद्भिः परिष्वक्तो भवेदत आह । यथेतम् । यथागतम् । अन्यथा प्रश्ननिरूपणयोर्बाधः स्यात् । तर्हि तावदवान्तरफलसाधकसहितः स्यादत आह । अनेवं च । एवंप्रकारयुक्ता
गमनं नास्ति । भोगस्य जातत्वात् । चकाराद्वैराग्यसहितोपि । तस्मादन२५ शयवान् भिन्नप्रकाराद्भिः परिष्वक्तो देवकृपासहितो वृष्टिर्भवतीति ॥१८॥
8-1 and Cread मद्वामनया for तद्वासनया। 16-Aand Cread भवत for स्यात् ।