________________
अ. ३ पा. १ सू. ६ ]
अणुभाष्यम् ।
१७२
कारिणां प्रतीतेः । साधारणपक्षं दूषयति । कुत: । इष्टादिकारिणां प्रतीतेः । इष्टादिकारिणः प्रतीयन्ते । श्रद्धापदेन देवकर्तृत्वेन च । सोमभावसाम्याच्च । इष्टादिकारिणां धूममार्गव्युत्पादने सोमभाव उक्तः । अत्रापि प्रथमाहुतिफलं सोमभाव उच्यते । अतः श्रतिसाम्यादपीष्टादिकारिणो ५ हन्तीति सिद्धम् ३|१|६ ॥
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ३।१।७ ॥
किंचिद् दूषणं परिहरति । ननु यदि श्रुतिसाम्येन सोमभावादि - टादिकारिणो रहन्तीत्युच्यते तदा सोमभावे तेषामप्यनिष्टं श्रूयते । तदेवानामन्नं तं देवा भक्षयन्ति ( छा० ५ | १० | ४ ) इति समानश्रुतौ च-आघ्यायस्वापक्षीयस्वेत्येवमेतांस्तत्र भक्षयन्ति ( ६।२।१६) इति चन्द्रदृष्टान्तेन तं च भक्ष्यन्ते । ततश्च देवाः स्वान्नं पर्जन्येनो कथं जुहुवुः । अतः पञ्चाहुत्यभाव इत्याशङ्क्य परिहरति वाशब्दः । तेषां सोमभावो गौणः । भक्षणं च । प्रकृतेप्यङ्गारत्वाच्चन्द्रमसः कथमाहुतिफलं भवेत् । सोमभावस्य भाक्तत्वमग्रे निरूपयिष्यामः । इदानीं भक्षणस्य गौणत्वं निरूपयति । १५ अन्नभावे हि मुख्यं भक्षणं भवति । तदन्यस्यान्नभावो नोपपद्यते । बधज्ञाने तु भवति । स सर्वं भवति । तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च ( बृ० १।४ । १० ) इति । प्रकृते तु तन्न । अनात्मवित्वात् । तथा सति मोक्ष एव भवेत् । अतो भक्षणमपि गौणम् । तथाहि श्रुतिरेव गौणभावं शब्दस्य बोधयति । अथ योन्यां देवतामुपास्ते ( ० १|४|१० ) इत्यत्र यथा पशुशब्दः । एवमत्रापि भक्षणं सहक्री - डनं सेवकभाव: । चन्द्रतुल्यापदेशाय तथा वचनम् । तथा सति तेषाममरत्वेन तथा स्तुति: । चन्द्रस्य भक्षणं तु क्षयादनुमीयते श्रुत्या - प्रथमां पिबते वन्हि: - इत्यादिरूपया । देवानामक्षणं भगवदवयवानामेव । अशनानशने तस्याविरुद्धे । आधिभौतिकानां देवानामशनमेव । २५ तस्माद्भक्षणस्य गौणत्वात्सोमभावे न काचिच्चिन्ता ॥ ३|१|७ ॥ १ ॥
20
१०
15 A and (' read तदन्यस्यान्यभावां for तदन्यस्यान्नभावां