________________
१७१
१ तदन्तरप्रतिपत्तापित्यधिकरणम् । [अ. 3 पा. . सू. ६
प्रथमेश्रवणादिति चेन्न ता एव ह्युपपत्तेः॥३॥१॥५॥
किंचिदाशक्य परिहरति । असौ वाव लोको गौतमामिः इत्यत्र देवाः श्रद्धां जुव्हतीति श्रुतेरापो न संकीर्तिताः । अपां हि पञ्चम्यामाहुतौ पुरुषवचनम् । श्रद्धा मनोधर्मः स कथं हूयत इति चेन । ५ मनसा सह भविष्यति । तथाप्यरुणान्यायेन धर्ममुख्यत्वम् । तर्हि कथं प्रश्नोपसंहारौ । परोक्षवादाद् भविष्यति । चमसवत् । श्रद्धा वा आपः -इति श्रुतेः । शुद्धिहेतुत्वसाम्यात् । चन्द्रमा मनसो जातः ( ऋ०स. १०१९०१३) इति श्रुतेश्चेत्येवंपरा भविष्यति । तस्मात्पथमाहुतावपा
मश्रवणान्न ताभिः संपरिष्वक्तो गच्छतीति चेन्न। ता एवाप एव श्रद्धाश१. ब्देनोच्यन्ते ।।हि युक्तोयमर्थः । यथा कर्मकाण्ड आपः श्रद्धाशब्देनोच्यन्ते तथा प्रकृतपि । परं नोपचारः। उपपत्तेः । उपक्रमोफ्संहारयोर्बलीयस्त्वात् । ननु मध्ये श्रुतेन श्रद्धाशब्देनोपक्रमोपसंहारावन्यथाकर्तुं युक्तौ। श्रद्धासहभावः संस्कारेण संस्कृतेषु भूतेषु सिद्धः । तेन मन:स्थान आप एव
वाच्याः । चन्द्रमा मनसो जात इति तु भिन्ना सृष्टिः। श्रद्धाप्रयोगस्तु १५ कामनाकृतव्यावृत्त्यर्थः । तत्र फल एव श्रद्धा न कर्मणि । यो यच्छ्रद्धः
स एव सः ( भ० गी. १७३ ) इति श्रद्धाया आश्रयस्य विषयभावजनकत्वात् कर्तुः कर्मभावाय श्रद्धाप्रयोगः । तत: संस्कृता आपो यजमानरूपा हूयमाना भवन्तीति सिद्धं भवति । तस्मात् प्रथमेप्यपामास्त
श्रवणम् ॥ ३॥१५॥ २. अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः॥ ३॥६॥
स्थितमेतज्जीवः संपरिष्वक्तो रहतीति । तत्र विचार्यते । सर्वे जीवाः संपरिष्वक्ता गच्छन्त्याहोस्विज्ज्ञानोपयोमिन इति विमर्शः । तत्र पञ्चाहुतिब्राह्मणेनाधिकारिणः श्रुताः । वेदे हि श्रुतानुसारिणी कल्पना । अतो विशेषस्याश्रुतत्वात सर्वेषामेव पञ्चाहुतिप्रकार इति चेन्न । इष्टादि
13-A and Cread संस्कारद्वारेण ior मंस्कारेण । 21-' reads तत्रेदं for तत्र ।