________________
अ. 3 पा. १ सू. ३]
अणुभाग्यम् ।
वदन्यत्र देहसंबन्धः । मुक्तौ न प्राणा गच्छन्ति । क्रममुक्तावपि देहसंबन्ध इति पौराणिकाः । देवभाव इत्यौपनिषदाः । अतो दूरे प्राणगतिरत्रैव । अतोपां संश्लेषो वक्तव्यः। चकारात् विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च (बृ. ४।४।२ ) इति स्वकर्मसहभावं बोधयति श्रुतिः । ५ तस्मादद्भिः परिष्वक्तो गच्छति ॥ ३॥१॥३॥
अग्न्यादिश्रुतेरिति चेन्न भाक्तत्वात् ॥३१॥४॥
श्रुतिविरोधं परिहरति । परस्परविरोधे व्यवस्था वा बोध्यते । ननुयत्रास्य पुरुषस्य मृतस्यामि वागप्येति वातं प्राणः (बृ. ३२॥१३) इत्यादिनाग्न्यादिमतिः प्राणानां श्रूयते । नच-औषधीोमानि वनस्पती१० न्केशाः (बृ. ३।२।१३) इत्यत्र प्रत्यक्षविरोधाद् बाधितविषयेयं
श्रुतिरिति वाच्यम् । आध्यात्मिकेन्द्रियमध्यपाताल्लोमकेशा अप्याध्यात्मिका एव ग्राह्याः । यैः कण्डूलावण्यप्रतीतिः । दृश्यमानानि तु गोलकस्थानानि । तस्मात्प्राणोत्क्रमणश्रुतिरग्न्यादिभावश्रुत्या बाध्यत इति
चेन्न । भाक्तत्वात् । प्रकरणव्यतिरेकेणामुक्तविषये प्रवृत्ता भाक्ता भवति । १५ अथ हैनं जारत्कारव आर्तभाग: पप्रच्छ (बृ० १२।१ ) इत्यत्र
ग्रहनिरूपणानन्तरं मृत्युं दृष्ट्वा म्रियमाणप्रश्ने-नामैव न जहात्यन्यज्जहाति इति प्रतिज्ञाते प्राणोत्क्रमणप्रश्ने नेति प्रतिवचने वागादीनामग्न्यादिभावानुवादः । ततो मन्त्रणाज्जीवस्य ब्रह्मभावोवगम्यते । सामन्या गतत्वात् ।
तौ ह यदूचतुः-इति कर्मप्रशंसा भिन्नप्रश्नोत्तरा। उभयोर्वचनविरोधात् । २. ब्रह्मविद्या च गोप्या । उत्क्रमणश्रुतिस्तु-स यत्राय५ शारीर आत्मा (बृ. ४।३।३५) इति ब्राह्मणे जीवस्य परलोकविहारार्थं निष्क्रामति चक्षुषो वा मूर्भो वा (वृ० ४।४।२ ) इत्यादिना प्राणानां विहारसाध. कानां निर्गमनमाह। अतो मुक्तामुक्तविषयभेदस्य व्यवस्थापकस्य विद्यमानत्वादग्न्यादिभावश्रुतिर्नोत्क्रमणश्रुतिबाधिका।। २५ तस्मादन्यत्र सिद्धो धर्मोन्यत्रावस्थासाम्याद् योज्यमानो भाक्तो
भवति । अतः प्राणोत्क्रमणमस्ति । तस्मात्संपरिष्वक्तो गच्छतीति सिद्धम् ॥ ११॥ ४॥