________________
२७'
प्रतिसूत्रं श्रीमदणुभान्यतात्पर्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः। प्रत्यक्षज्ञानाभावेपि परोक्षानुभवो भवति तथा वैदिकप्रपञ्च
स्यापि परोक्षानुभवो भवत्येव । २९ अस्मादेव हेतोर्वेदस्य नित्यत्वम् । ३० लोकदृष्ट्या प्रपञ्चस्य देवादीनां चानित्यत्वाङ्गीकारे तत्पवाह ९०
एव शब्दसंबन्धः । लोकेपि शरीरगङ्गाप्रभृतिषु प्रवाह एव शब्दसंबन्धदर्शनात् । अतो देवादीनां तत्कर्मणां चानित्यत्वेपि तत्ववाहस्य नित्यत्वात्तद्बोधके वेदेपि नानित्यत्वं
शङ्कितुं शक्यते । ३१ कर्मण्युपासने च प्रतिपादितोपि देवानामधिकारो मधुवि- ९१
द्यायां न संगच्छते तत्र मधुत्वेनोपवर्ण्यमानस्यादित्यस्य विद्याविषयत्वात्कमन्यमादित्यमुपासीत। एवं संवर्गविद्यादिष्वा
दित्यादीनां विषयतया देवानामधिकारो बोध्यः । ३२ अग्निः पुच्छस्य प्रथमं काण्डमित्यादिश्रुतिष्वग्नचादीनां ९२
देवानां ज्योतिर्गणे विद्यमानत्वकथनात्तेषां च तत्र महाभोग
कथनात्प्राप्तफलत्वेनोपासनायामधिकारोसंगत इति शङ्का । ३३ वेदे यथा प्राजापत्यादीनां कर्माधिकारो निरूप्यते तथा ९२
तद्यो यो देवानाम् इत्यादिना ज्ञानेपि श्रूयते। अतः कर्मणि ज्ञाने चाधिकारोवश्यमभ्युपेयः ॥
९ शुगस्येत्यधिकरणम् । ३४ छान्दोग्यसंवर्गविद्यायां जानश्रुति हा शूद्रेत्येव संबोध्य संवर्ग- ९३
विद्योपदिष्टा । तस्माज जातिशूद्रस्याधिकार इत्याशङ्कच नात्र शूद्रशब्दो जातिवाची किंतु शुचा आद्रवतीति शूद्र इति यौगिकः । अतो योगेन जानश्रुतेर्मत्सरित्वं बोधयति तेन पूर्व स्वीकारः । पश्चाच्चापमरणेन मत्सरत्यागे विद्योपदेश इति नात्र जातिशूद्रस्याप्यधिकारः ।