________________
अणुभाष्यम्।
सूत्राङ्काः
- पृष्टाङ्काः। पवीतमन्त्रे प्रजापतेर्यत्सहजं पुरस्तादिति श्रवणात्तन्न्यायेनान्यत्रापि जन्मानुग्रहविशेषतपःप्रभृतिभिर्मतङ्गविश्वामित्रा
दीनामिवाधिकारः संभवति । २७ पूर्वसूत्रोक्तस्य देवादीनामधिकारस्य विप्रतिपन्नतया तबलेन ८८
तेषु ब्राह्मण्यादेर्वक्तुमशक्यत्वात्तेषां स्वर्गस्थत्वेन पृथिव्यादिरूपदेशस्य व्रीह्यादिरूपद्रव्यस्य तत्र सूर्यगत्यभावेन दर्शादिरूपकालस्य च तदतिरिक्तदेवाभावेनोद्देश्यदेवतान्तरस्यापि वक्तुमशक्यतया तदभावेपि कर्मकरणे श्रुतिविरोध इत्याशङ्कय प्रजापतिन्यायाद्वर्णसत्तायाः साधितप्रायत्वात् इन्द्रब्रह्मचर्यश्रावणादाश्रमसत्तायाः देवा वै सत्रमासतेत्यादौ भूमावागत्य ऋषीन वृत्वा यज्ञकरणश्रावणाञ्च बहुधोपयोगो देवानां वेदे दृश्यते भगवदवयवरूपा ये देवास्ते तेषामुद्देश्या अपि भवन्ति । उभौ वै देवाना शमिताराविति श्रुतौ ऋत्विजोपि
श्राव्यन्ते । तस्मान्न श्रुतिविरोधः।। २८ ननु जन्यानां देवानां वृत्तान्तं वदन्वेदः स्वयं कथं नित्यो ८९
भवेदतो वेदानित्यत्वबोधकत्वादयं देवाधिकारपक्षो न संगत इत्याशङ्कय शब्दोक्ताः पदार्थाः सर्व एवाधिदैविका भगवदवयवरूपाः शब्दैकसमधिगम्या एवंविधास्ते नित्यास्तैः सह पदानां संबन्धोपि नित्य इति न वेदस्यानित्यत्वम् । न च वैदिकपदार्थानामतिरिक्तत्वाङ्गीकारे प्रत्यक्षविरोधः शयः । इदानीमपि यजमानविंक्प्रभृतीनां वेदादेव सपरिकरकर्मावगतेवृद्धव्यवहारादिना दर्शनेन वैदिकपदार्थान्तरेण्वपि तेनैवावगतिसंभवात् । अतो यैर्भगवान् दृष्टस्तेषां तु तत्रैव सर्वपदार्थदर्शनात्तेष्वेव संकेतग्रहस्ततोर्वाचीनानामिदानींतनपर्यन्तानां तूपमानात्तेषु संकेतग्रहो भगवतः सर्वानुकारित्वात् । किंच यथा जमदनीनां पञ्चावत्तमित्यत्र स्वस्मिन् जामदमय इदि