________________
सूत्राङ्काः
प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् ।
पृष्ठाङ्काः ।
उपदिष्टवान् । अतो न तत्र जीवः प्रकरणार्थः । अतस्तदनुरोधेनात्र जीवस्य ब्रह्माभिन्नत्वं न वक्तुं शक्यं तस्माद् दहरः परमात्मैव ।
२० पूर्वप्रकरणे सत्त्यनामकस्य ब्रह्मणो ज्ञानासंभवात्तदर्थं शब्दो - ८४ तस्य नियम्यस्य जीवस्य स्वरूपज्ञानाय जीवपरामर्शो नतु प्रकरणित्वेन ।
२१ भवत्वेवं तथाप्यल्पे हृदयपुण्डरीक आकाशरूपस्य ज्यायसो ब्रह्मणः स्थितिर्न संभवत्यतो जीव एवोच्यतामित्याशङ्कायां निचाय्यत्वादेवं व्योमवञ्चेत्यत्र विरुद्धधर्माश्रयत्वेन ब्रह्मणः स्थितिर्वक्तुं शक्येत्युक्तम् । तादृशत्वस्यात्राप्यनुसंधेयत्वात्तेन तत्समाधानसिद्धिरिति दहरः परमात्मैव ॥
६ अनुकृत्यधिकरणम् ।
२२ न तत्र सूर्यो भातीति वाक्यं विषयत्वेनोदाहृत्य लोकप्रका - शकानां सूर्यादीनां दहरान्तःस्थत्वकथनादुक्तवाक्यं तद्विरुद्धमित्याशङ्कय तेषां स्वतो न प्रकाशकत्वं किंतु भगवदनुकारित्वाद्भगवत्प्रकाशेनैव प्रकाशकत्वं सर्वत्र सर्वदेति निर्णीतम् । २३ उक्तार्थे स्मृतेरपि संमतिः ॥
७ शब्दादेव प्रमिताधिकरणम् ।
२४ अङ्गुष्ठमात्रस्य भूतभव्येशानत्वं शब्दादेव प्रतीयते । २५ तस्य तत्र स्थितिर्मनुष्याणामधिकारार्थेति निर्णीतम् ॥ ८ तदुपर्यपीत्यधिकरणम् ।
८५
८५
८६
८६
८७
२.६ मनुष्येषु त्रैवर्णिकानामुपनयनादिसंस्कारवतां कर्माधिकाराद् ८७ ब्रह्मविद्यायामप्यधिकार इति पूर्वतन्त्रादेव सिध्यति । ततो मनुष्याद्धीनजातीयानां तु योग्यताभावादेव नाधिकारः । अतः परं मनुष्यादुत्कृष्टानां ब्रह्मविद्यायामधिकारः संभवादुक्तः । यद्यपि देवादीनामुपनयनादिकं न प्रसिद्धं तथापि यज्ञो -