________________
अणुभाष्यम्
पृष्ठाङ्काः।
सूत्राङ्काः
पिहितत्वमनृताभिधाना इति श्रुत्यन्तरेण तथा दर्शनात् । तञ्च सुषुप्तौ सुखमहमस्वाप्सं न किंचिदवेदिषमित्यनुभवस्तासां प्रजानामज्ञत्वं साधयति न त्वज्ञानकल्पितत्वम् । अज्ञानकल्पितत्वे सति ब्रह्मलोकगतिर्न संगच्छते । तथापहतपाप्मत्वादिविशेषणादात्मशब्दश्च न संगच्छतेतो गतिशब्दयोब्रह्मपरत्वाद्दहरः परमात्मैव । किं च तद्य इहात्मानमनुविद्य व्रजन्तीत्यात्मज्ञानं लोकक्षयहेतुत्वेनोच्यते । यद्यात्मा ब्रह्माभिन्नः स्यात्तदापहतपाप्मादिगुणकत्वात्स्वस्य स्वाज्ञानं न स्यात् । अत इदमज्ञानं जीवस्य ब्रह्माभिन्नत्वं बोधयद्गतेब्रह्मविषयत्वे लिङ्गम् । एवमपहतपाप्मत्वादिविशेषणान्यात्मशब्दस्य ब्रह्मपरत्वे लिङ्गमिति प्रागेवोक्तमतो दहरः परमा
स्मैव । १६ य आत्मा स सेतुर्विधतिरिति श्रुतेः सर्वलोकविधारकत्वात्स्वयं ८२
साधनीभूय संसारमापकत्वादेकस्यैवाकाशद्यावापृथिन्यादरन्तबहिःस्थापनेन तस्य सर्वलोकधारणस्य माहिमरूपत्वात्तस्य महिम्नो विरुद्धधर्माश्रयत्वरूपतया श्रीयशोदादिभिरन्तर्ब
हिरुपलब्धश्च दहरः परमात्मैव । १७ प्रकरणोक्तसर्वधर्मप्रसिद्धिर्भगवत्येव न जीवे संभवत्यतोपि ८३
भगवानेव दहरः। १८ आदिमध्यावसानेषु संप्रसादादिशब्दैीवस्य परामर्शान्जीव ८३
एव दहर इत्याशङ्कय जीवे जगदाधारत्वादेरसंभवात्स न
दहरः। १९ अनन्तरोक्तेन्द्रप्रजापतिप्रकरणे जीवस्यैवामृताभयत्वादिरूपे- ८४
णोक्ततयात्रापि स एव परामृश्यतामित्याङ्य तत्र प्रजापतिरुपदेशसमये आविर्भूतब्रह्मरूपो जातो यथा नृसिंहोपासको नृसिंहाविटो भवति । अतस्तथाभूतत्वात्सर्वत्रात्मानं पश्यन