________________
प्रतिसूत्रं श्रीमदणुभान्यतात्पर्यम् । सूत्राङ्काः
पृष्ठाङ्काः। ९ नान्यत्पश्यतीत्यादिनोक्ता अन्यादर्शनादयो धर्मा आ- ७७ विर्भूते परस्मिन्भगवति तदर्शनेन तदैक्यात्तदविभागाद्वा तदेकतानतायां संभवतीति भूमा ब्रह्मैवेति साधितम् । तेन निरवध्यानन्दरूप एवान्तर्याम्युपास्य इति पृथगपि भक्तिमार्गीयैरुपास्य इति बुद्धिस्थं प्रसंगाद्विचारितम् ॥
३ अक्षराधिकरणम् । १०।११ एतद्वै गार्गि इति बृहदारण्यकवाक्य आज्ञया पृथिव्य- ७७
म्बरान्तधारकत्वेनाक्षरस्य ब्रह्मत्वं साधितम् । १२ तस्य प्रशासनस्य जीवधर्मत्वव्यावृत्त्याक्षरज्ञानफलबोधनेन च ७८ ब्रह्मत्वम् ॥
४ ईक्षतिकर्माधिकरणम् । १३ एतद्वै सत्यकामेति वाक्ये ध्येयः परमात्मैव नतु विराडू ७९
ब्रह्मा वा । परात्परं पुरिशयं पुरुषमीक्षत इति वाक्यशेषे ईक्षतिकर्मत्वेन जीवघनादक्षरात्परस्यैवोक्तत्वात् । आभिध्यानविषयस्येक्षतिकर्मत्वप्रतिपादनेनोपासनानां फलं साक्षात्कार इत्यप्यनेन साधितम् ॥
५ दहराधिकरणम् । १४ पूर्वोक्तच्छान्दोग्यवाक्ये वक्ष्यमाणहेतुभ्यः परमात्मैव । ७९ १५ यथा सुवर्णानिधिं निहितमित्यादिनोक्तं प्रजाशब्दवाच्यानां जी- ८१
वानां यद्ब्रह्मलोके गमनं सा गतिरेष आत्मापहतपाप्मेत्यत्रापहतपाप्मत्वादिविशिष्ट आत्मशब्दः पूर्वोक्तो ब्रह्मलोकशब्दश्च ताभ्यां हेतुभ्यां दहरः परमात्मैव । न च जीवपरमात्मनोस्ततो भेदाभावात्स्वप्नदशायामज्ञानकल्पितानामेव ब्रह्मलोकगमनमात्मशब्दश्च जीवसाधारण इति न ताभ्यां परमात्मसिद्धिरिति शङ्कयम् । अत्र हि प्रजानां ब्रह्मलोके गच्छन्तीनामनृतेन प्रत्यूढा इति विशेषणं दृश्यते । तदर्थस्त्वनृतेन