________________
अणुभाज्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः। २ ननु भवतु ब्रह्मत्वं तथापि तज्ज्ञानेन सर्वविज्ञानस्योपक्रान्त- ७४
त्वादन्यवाग्विमोकः कथं संगच्छत इत्याशङ्कय ब्रह्मणि मुक्तोपसृप्यत्वं वक्तुं शररूपस्य जीवस्य पूर्वमन्त्रे ब्रह्मणि योजनस्योक्तत्वात्तस्य निरध्यस्तत्वरूपं मुक्तत्वमन्यवाग्विमोकेन बोध्यत इति तदपि संगच्छते । ३ एतत्प्रकरणे जडधर्मबाहुल्यस्य जडदृष्टान्तस्य चोक्तत्वादत्र ७४
प्रधानमेवाङ्गीकार्यमित्याशय तद्बोधकानां निःसंदिग्धानां धर्माणामदर्शनाबहाबोधकानामात्मसर्वज्ञानन्दरूपादिशब्दानां निःसंदिग्धानां दर्शनान्न प्रधानमङ्गीकर्तुं शक्यं किंतु परमा
त्मैव । ४ तर्हि जडजीवविशिष्टः सांख्यवादोत्रास्त्वित्याशङ्कय तद्वा- ७५
चकनिःसंदिग्धशब्दाभावान्न जीवो नापि प्रधानं किंतु सर्वज्ञत्वादीनां ब्रह्मधर्माणां निःसंदिग्धानां दर्शनाद्ब्रह्मैव । ५ तमेवैकं जानथेति ब्रह्मणि ज्ञानकर्मत्वस्य जीवे ज्ञानकर्तृ- ७५
त्वस्य बोधनेन भेदव्यपदेशान्न जीवपरत्वम् । ६ अस्य वाक्यस्य ब्रह्मप्रकरणपठितत्वादपि न जीवपरत्वम् । ७५ ७ द्वा सुपर्णेति श्रुतौ परमात्मनः शरीरे स्थितिमात्रं प्रकाश- ७५ कस्वं च श्राव्यते । जीवस्य तु कर्मफलभोगोपीति स्थित्यदनाभ्यां ब्रह्मजीवौ पृथगेव निणर्णीयेते तस्मादपीदं ब्रह्मवाक्यमेव नतु प्रधानजीवसंदेहात्सांख्यपरम् ॥
२ भूमाधिकरणम् । ८ यो वै भूमा तत्सुखमिति वाक्ये बाहुल्यं सुषुप्तिश्च नोच्यते ७६ किंतु ब्रह्मैव । सुषुप्तेः सकाशादाधिक्यस्य स एवाधस्त्रादित्यादिना बोधनान्मुख्यवृत्त्यात्मशब्दपरिग्रहसंभवाद्ब्रह्मणः सर्वशब्दवाचकत्वेन भाववाचकशब्दानामपि ब्रह्मपरत्वसंभवाच्च भूमा भगवानेव ।