________________
प्रतिसूत्रं श्रीमदणुभान्यतात्पर्यम् । सूत्राङ्काः
पृष्ठाङ्काः। २८ जैमिनिमतेन परिमाणविरोधपरिहारमाह । व्यापकस्य प्रादे- ७०
शमात्रत्वं कल्पनां विना साक्षादपि संभवति यथाकाशस्य । २९ निराकारमेव ब्रह्म मायाजवनिकाच्छन्नं विष्ण्वादिदेवताधि- ७१
ष्ठितेन पुरुषाकारेणाभिव्यक्तः पुरुषविधोन्तर्यामी भवति नतु
स्वाभाविकस्तस्याकार इत्याश्मरथ्यस्य मतम् । ३० अनुस्मृतिवशात्पुरुषाकारो यद्यद्धियेति स्मृतेः साधकानुग्रहा- ७१
थमिति बादरिमतम् । ३१ पूर्वोक्तं नियतपरिमाणवादबोधकं जैमिनिमतं तदेकदेशिनो ७१
न तस्येति बोधनार्थं पुन मिनिमतमाह श्रुतौ प्रादेशमात्रमिह वै देवा इत्यारभ्याभिसंपादयिष्यामीति कथनात्संपत्तिनिमित्तं
प्रादेशमात्रत्वं न तु वास्तवमिति तदाशयः । ३२ एनं वैश्वानरमित्यादिना जाबाला आमनन्ति तस्मात् प्रादेश- ७२
मात्र एव व्यापकोतो वस्तुस्वभावादेव विरुद्धधर्माश्रय इति वैश्वानरो भगवानेवेति स्वसिद्धान्तः ॥
प्रथमाध्यायस्य तृतीयः पादः १॥३॥
१ धुभ्वाद्यायतनाधिकरणम् । १ यस्मिन्यौरिति मुण्डकवाक्ये सांख्यमतसिद्धं प्रधानमुच्यते ७३
ब्रह्म वेति संशये ब्रह्मैवोच्यत इति साध्यते । तत्र स्वशब्दो हेतुत्वेन स च श्रौतस्थस्यात्मानमित्यात्मशब्दस्य वाचकः । तथा च युभ्वादीनां भारत्वं तदा स्याद्यदि तेषां सूत्रे मणिगणवत्मोतत्वं स्यान्न तु तथा । तेषां कार्यतयैतदात्मकत्वेनैतत्स्वरूपान्तःपातित्वात् । न च सेतुत्वेन साधनत्वबोधनात्फलरूपत्वाभावे सति न ब्रह्मत्वमिति शङ्कयम् । अमृतस्य सेतुस्त्यित्र षष्ठया भेदबोधकत्वेन फलरूपत्वान•पायात् । तस्माद्द्युभ्वायायतनं ब्रह्मैव ।
ई. अणुभाग्य]