________________
अणुभाष्यम् ।
..२०
सूत्राकार
पृष्ठाङ्काः। ७ अदृश्यत्वाधिकरणम् । २१ अदृश्यत्वादिगुणकोक्षरत्वेनोक्तः परमात्मैव विश्वजनकरूप- ६५
ब्रह्मधर्मस्य तत्रोक्तेः। २२ अक्षरपुरुषौ सांख्यविद्यासिद्धप्रकृतिपुरुषावेवेत्याशङ्कय तौ ६६
नात्र संभवतः । अक्षरस्य सर्वज्ञत्वादिना पुरुषत्वेन च विशेषणात् । पुरुषस्य दिव्यत्वादिना प्राणादिजनकत्वेन च
विशेषणात् । नहीदं सांख्ये सिध्यति । २३ अग्निद्र्धेत्यादिना यदुक्तं तद्विश्वकायस्य ब्रह्मण एव संगच्छते ६७ नतु सांख्यसिद्धस्य ॥
८ वैश्वानराधिकरणम् । २४ वैश्वानरशब्दवाच्यो हिरण्यगर्भादिः परमात्मा वेति संशये ६७
हिरण्यगर्भादिबोधकसाधारणशब्दाद्यो विशेषः प्रादेशमात्रस्यै
वाभितो विगतमानत्वरूपस्तेन वैश्वानरशब्दवाच्यः परमात्मा । २५ केचित्स्वदेहान्तरित्यादिस्मृत्युक्तस्यानुमापकत्वमतः प्रादेश- ६८ ___ मात्रे द्युमूर्धत्वादिविशिष्टः परमात्मैव । २६ ननु प्रादेशमात्रस्मृत्या वैश्वानरपदस्य भगवत्परत्वं निर्णेतुं न ६९
शक्यमहं वैश्वानरो भूत्वेति जाठराग्निपरत्वस्यापि स्मरणात्। समानप्रकरण एष वा अग्निर्वैश्वानर इत्यग्निसमभिव्याहारेण श्रवणाद् भगवद्विभूतित्वाच्च । अत्राप्यये हृदयं गार्हपत्य इत्यादिना त्रेताग्निकल्पनश्रावणात् पुरुषन्तःप्रतिष्ठितत्वश्रावणाञ्च न भगवत्परत्वं शक्यवचनमित्याशङ्कय समाधीयते । तथाहि नात्र भगवत्परत्वं निषेद्धं शक्यं भगवतो भोत्तृत्वं वक्तुं श्रुतावमिदृष्ट्युपदेशाज्जाठरे द्युमूर्धत्वादिधर्माणामसंभवाच्च । न च तदुपासनार्थमिति शङ्कयं वाजसनेयिभिः
पुरुषत्वस्य श्रावणात् । तस्माद्वैश्वानरः परमात्मैव । २७ पूर्वोक्तहेतुभ्य एव जाठरोमिदेवतारूपोमिश्च न संभवति । . .७.