________________
अ. २ पा. ४ सू. १७ ]
अणुभाष्यम् ।
इदमत्र विचार्यते । इन्द्रियाणां प्राणाधीन सर्वव्यापारत्वात्तन्नामव्यपदेशाच्च प्राणवृत्तिरूपाणीन्द्रियाणि तत्त्वान्तराणि वेति संशयः । तत्त्वान्तराण्येवेति सिद्धान्तः । तानीन्द्रियाणि तत्त्वान्तराणि । कुतः । तद्व्यपदेशात् । इन्द्रियशब्देन व्यपदेशात् । एतस्माज्जायते प्राणो मनः सर्वे५ न्द्रियाणि च ( मुं. २|१| ३ ) इति भिन्नशब्दवाच्यानां क्वचिदेकशब्दवाच्यत्वेपि नेकत्वम् । आसन्येपि तर्हि भेदः स्यादित्यत आह अन्यत्र श्रेष्ठात् । तस्य ते यौगिकाः शब्दा इति || २|४ | १७ ॥ भेदश्रुतेः || २|४|१८ ॥
1
यत्रापि प्राणशब्दप्रयोगस्तत्रापि भेदेन श्रूयते - तमुत्क्रामन्तं १० प्राणोनूत्क्रामति प्राणमनूत्कामन्तं सर्वे प्राणा अनुत्क्रामन्ति ( वृ० ४ । ४ । २ ) इति ॥ २|४|१८ ॥
१६४
१५
वैलक्षण्याच्च ॥ २।४।१९ ॥
वैलक्षण्यं च प्राणस्य चेन्द्रियाणां च । सुप्तेषु वागादिषु प्राणो जागर्ति । स्वामिसेवकवञ्चानेकं वैलक्षण्यम् || २|४|१९ ॥ ८ ॥
९ संज्ञामूर्तिक्लृप्तिस्त्वित्यधिकरणम् ।
संज्ञा मूर्तिक्लप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २।४।२० ॥
भूतभौतिकसृष्टिः परमेश्वरादेवेति निर्णीय नामरूपव्याकरणमपि परमेश्वरादेवेति निश्चयार्थमधिकरणारम्भः । लोके नामरूपकरणं कुलालादिजीवेषु प्रसिद्धमिति । अलौकिकेपि स्थावरजङ्गमे मयूरादिसंज्ञां २० मूर्ति च जीवादेव हिरण्यगर्भादेर्भविष्यतीति वन्द्यादिदेवानां जीवरूपाणामेव वागादिरूपेणानुप्रवेशात् तत्साहचर्येण नामरूपयोरपि जीव एव कर्ता भविष्यतीत्याशङ्कां निराकरोति तुशब्दः । संज्ञामूर्त्योः क्लप्तिर्नाम - रूपयोर्निर्माणम् । त्रिवृत्कुर्वतः यस्त्रिवृत्करोति तस्मात् । सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ( छां. ६।३।२ ) इति । तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति