________________
१६३ ८ तदिन्द्रियाणि तद्वयपदेशादित्यधिकरणम् । [ अ. २ पा. ४ सू. १७
1
यदधिष्ठानमग्न्यादि तत्किं स्वत एवान्यसहितं वेति संदेहः । किं तावत्प्राप्तम् । स्वत एवेति । पूर्वोक्तन्यायेन तावतैव सिद्धेरनवस्थानाच्च देवतात्वव्याघातश्वेत्येवं प्राप्ते । उच्यते । प्राणवताधिष्ठितं वागादि । कुतः । शब्दात् । सोयमग्निः परेण मृत्युनातिक्रान्तो दीप्यते ( ० १ । ३ । १२ ) इत्यादि । ५ अयमर्थ: । द्वया ह प्राजापत्या : ( ० १ | ३ | १ ) इत्यत्राधिष्ठातृत्वमम्मीनामुक्तम् | देवा इत्यविशेषेणेन्द्रियाधिष्ठात्र्योन्याश्च । तेषां प्रतिबन्धक।सुरातिक्रमेण स्वर्गलोकं गमनेच्छा बभूव । तत्र यज्ञेनैव स्वर्ग इति । तत्र जनको ह वैदह ( वृ० ३ | १|१ ) इति ब्राह्मणे केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमते इत्युद्गात्रर्त्विजा वायुना प्राणेनेत्युद्गात्रैवाक्रमणमिति सिद्धम् ।
१०
1
तत्रान्योन्योद्वातत्ववरणे तथोद्गाने यो वाचि भोगस्तं देवेभ्य इत्यान्नातम् । तदनु श्रमरूपपाप्मना वेधानन्तरमप्रतिरूपं वदतीति निरूपितम् । सोपि दोषो देवानां प्राप्नोति । तच्छ्रुतिविप्रतिषिद्धम् । न ह वै देवान्पापं गच्छति ( बृ० १/५/२० ) इति । तदनु प्राण एवोद्गाता सिद्ध: । १५ तेनान्येषामपि पापसंबन्धो निवारितः । ततः परेण तस्य चेति सूत्रेण मृत्युमतिक्रान्तो दीप्यत इति । अतो दीप्यमानस्यैवाधिष्ठातृत्वात्प्राणवतैवाधिष्ठानामिति सिद्धम् || २|४|१५ ॥
तस्य च नित्यत्वात् ॥ २।४।१६ ॥
अग्न्यादेः प्राणसंबन्धो नित्य इति सर्वदाधिष्ठातृत्वम् । प्राणस्य २० तत्संबन्धस्य चेति चकारार्थः । प्राणसहायेनैव यथोचितवर्णोद्गम इति लोके स्वामिभृत्यभावेन जीवे भोगः फलिष्यति || २|४|१६ ॥ ७ ॥
८ तदिन्द्रियाणि तद्वयपदेशादित्यधिकरणम् | तदिन्द्रियाणि तद्यपदेशादन्यत्र श्रेष्ठा || २|४|१७ ॥
15- A and Com. तस्य चेति सूत्रेण before मृत्युमतिक्रान्तो । 21-A, C, M, D and F read स्वामिभूत्यन्यायेन for स्वामिभृत्यभावेन ।