________________
१६५
१० मांसादिभौममित्यधिकरणम् । [अ.२ पा.४ सु. २२
त्रिवृत्कर्ता परमेश्वरः । स एव नामरूपयोरपि कर्ता । कुतः । उपदेशात् । उप समीप एकवाक्य उभयकरणस्य प्रतिज्ञानात् । जीवस्य तु त्रिवृत्करणानन्तरं शरीरसंबन्धे कर्तृत्वात् । तस्मान्नामरूपप्रपञ्चस्य भगवानेव कर्तेति सिद्धम् ॥ २१४।२० ॥ ९ ॥
१० मांसादिभौममित्यधिकरणम् । मांसादिभौमं यथाशब्दमितरयोश्च ॥ २।४।२१ ॥
इदमिदानीं विचार्यते । अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति । यो मध्यमस्तन्मांसम् । योणिष्ठस्तन्मनः ।
आपः पीतास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मत्रं यो मध्य१० मस्तल्लोहितं योणिष्टः स प्राणः । तेजोशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तदस्थि भवति । यो मध्यमः सा मज्जा योणिष्टः सा वाक । अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक (छां. ६।५।१) इति । तत्र संशयः वाक्प्राणमनांसि किं भौतिकानि । आहोस्वित्स्वतन्त्राणीति । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ( मुं. २।१।३ ) १५ इति श्रुतिविप्रतिषेधात्संशयः । त्रिवृत्करणप्रसंगेनोदितामाशङ्कां निराकरोति । तत्र पूर्वपक्षमाह । मासांदि भौम पुरीषमांसादि तेजोबन्नप्रकृतिकम् । कुतः । यथाशब्दम् । अन्नमशितमित्यादिश्रुतितो निःसंदिग्धं प्रतिपादनात् । किमतो यद्येवम् । तदाह । इतरयोश्च । वाचि तुल्यत्वान्न संदेहः । इतरयोर्मनःप्राणयोरपि भौतिकत्वं यथाशब्दम् । उद्गमश्रुतिस्तु २० स्तुतित्वेनानुवादपरा भविष्यति । उपपादकश्रुतिबाधात् । तस्माद्भौतिकान्येव मनःप्रभृतीनीत्येवं प्राप्ते ॥ २।४।२१॥
उच्यते। वैशेष्यातु तद्वादस्तद्वादः॥ २।४।२२॥
अन्नादिभिर्विशेष्यते । मनः प्रभृति सम्यक कार्यक्षमं भवति । तथा " दर्शनादुपादानाच्च । अतो वैशेष्यादेव हेतोरन्नमयत्वादिवादः ।