________________
अ. २ पा. ४ सू. ६] अणुभाम्यम् । चक्षुरादिगणनायामेतेपि चत्वार इन्द्रियत्वेन गणिताः । स्थिते सति श्रुतौ गणनया चक्षुरादितुल्यत्वे सति । अतो हेतोः सप्पैवेति न किंत्वेकादश । अवान्तरगणना सूचनयासंभवाभिप्राया। अधिकसंख्यान्तःकरणभेदादिति । एकादशैवेन्द्रियाणीति स्थितम् ॥ २।४।६ ॥ २॥
३ अणवश्चेत्यधिकरणम् ।
अणवश्च ॥ २॥४॥७॥ सर्वे प्राणा अणुपरिमाणाः । गतिमत्त्वेन नित्यत्वेणुत्त्वमेव । परिमाणप्रमाणाभावात्पुनर्वचनम् ॥ २।४।७ ॥ ३ ॥
४ श्रेष्ठश्चेत्यधिकरणम् ।
श्रेष्ठश्च ॥ २॥४८॥ मुख्यश्च प्राणो नित्यगतिमानणुपरिमाणश्च । चकारादतिदेशः । नासदासीदित्यत्र-आनीदवातं स्वधया तदेकम् ( ऋ. ११ तै. ब्रा. २८) इति अननात्मकस्य पूर्वसत्ता प्रदर्शिता ॥ १४८॥
न वायुक्रिये पृथगुपदेशात ॥२४॥९॥ १५ नन मुख्यः प्राणो वायरेव भविष्यति । इन्द्रियाणां क्रिया वा । एवं
हि श्रूयते । यः प्राणः स वायुः । एष वायुः पञ्चविधः । प्राणोपानो व्यान उदानः समानः (बृ. १।५।३) इति । सामान्यकरणवृत्तिः प्राणाया वायवः पञ्च ( सां. का. २९) इति । तत्रान्तरीया आचक्षते । तदुभ
यमपि न । कुतः । पृथगुपदेशात् । एतस्माज्जायते प्राणो मनः सर्वेन्द्रि२० याणि च । खं वायुर्योतिरापः पृथिवी विश्वस्य धारिणी (मुं. २।१।३) इति प्राणवाय्वोः पृथगुपदेशात् । वृत्तिवृत्तिमतोरभेदेन ततोपि पृथगुपदेशाच्च ॥ २।४।९॥४॥
५ चक्षुरादिवत्त्वित्यधिकरणम् । चक्षुरादिवत्तु तत्सहशिष्टयादिभ्यः ॥ २॥४॥१०॥ स प्राणः स्वतन्त्रः परतन्त्रो वेति विचारे स्वतन्त्र इति तावत्मा