________________
१६१
५ चक्षुर। दिवत्त्वित्यधिकरणम् । [ अ. २पा. ४ सू. १३
तम् । सुतेषु वागादिषु प्राण एको मृत्युनानाप्तः प्राणः संवर्गों वागा - दीन् संवृत्ते प्राण इतरान् प्राणान् रक्षति मातेव पुत्रान् इति । इमामाशङ्कां निराकरोति तुशब्दः । चक्षुरादिवदयमपि प्राणीस्वतन्त्रः । मुख्यतो भगवदधीनः । व्यवहारे जीवाधीनः । कुतः । तत्सहशिष्ट्या - ५ दिभ्यः । चक्षुरादिवत्सहशासनात् । इन्द्रियजयवत्प्राणजयस्यापि दृष्टत्वात् । आदिशब्देन जडत्वादयः || २|४|१० ॥
अकरणत्वाच्च न दोषस्तथाहि दर्शयति || २|४|११ ॥
ननु प्राणस्य जीवोपकरणत्वेन तदुपकारकव्यापारवत्त्वमपेक्ष्यते । तत्रैकादशैव वृत्तयः तन्त्रान्तरेपि सिद्धाः । एकादशामी मनसोपि वृत्तय १० आकूतयः पञ्च धियोभिमानः । मात्राणि कर्माणि पुरं च तासां वदन्ति चैकादश वीर भूमी : ( भा. ५/११/९ ) इति । तथा कश्चित्प्राणस्य व्यापारोस्तीति चेत् । नैष दोषः । कुतः । अकारणत्वात् । करणस्यैव हि व्यापारोपेक्षितः । अन्यस्य कार्यमात्रमपेक्षितम् । तत्राह । तथाहि कार्य - वत्त्वं युक्तं तच्छ्रुतिरेव दर्शयति । तस्मिन्नुत्कामत्यथेतरे (प्र. २।४) इत्यादि१५ श्रुतिभिः । प्राणनिमित्तैव शरीरस्थितिरिति । तस्माद्व्यापाराभावेपि स्वरूपस्थितिमात्रेण तस्योपकारित्वम् || २|४|११ ॥
1
पञ्चवृत्तेर्मनोवद् व्यपदिश्यते ॥ २।४।१२ ॥
व्यापारव्यतिरेकेणोपकारित्वमसमञ्जसमिति चेत्तत्राह । पञ्चवृत्तेः । अहमेवैतत् पञ्चधात्मानं विभज्यैतद्वाणमवष्टभ्य विधारयामि (प्र. २/३ ) २.० इति । यथा मनसो द्वारभेदेनैवैकादश वृत्तयः स्वरूपत एव । एवमेव प्राणस्यापि पञ्चधात्मानं विभज्य कार्यकारणं व्यपदिश्यते || २|४|१२ ॥ अणुश्व || २|४|१३ ॥
अतिदेशेन प्राप्तमप्यणुत्वं पञ्चधात्मानं विभज्येति वचनात्संदिग्धं पुनर्विधीयते । आसन्योप्यणुः । चकारात्पूर्वोक्तसर्वसमुच्चयः || २|४|१३|| ५ ||
२१ [ अणुभाष्य ]