________________
१ तथा प्राणा इत्याधिकरणम् । [ अ. २५.४.५
सप्तगतेर्विशेषितत्वाच्च ॥ २|४|५ ॥
तमुत्क्रामन्तं प्राणोनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूस्क्रामन्ति (बृ. ४/४/२ ) इति पूर्वोक्तानां चक्षुरादीनां - अथारूपज्ञो भवतीत्येकीभवति न पश्यतीत्याहु: ( बृ. ४/४/२ ) इत्यादिभिर्जीवगति: ५ सप्तानां गतिभिर्विशेष्यते । सप्त गतयस्तेन विशेषिता एकीभवन्तीति । अतो जीवसमानयोगक्षेमत्वाज्जीवतुल्यतेति । चकारात्तत्तदुपाख्यानेषु चक्षुःप्रभृतीनां देवतात्वं संवादश्व । अतश्वेतनतुल्यत्वम् ।
1
केचिदिदं सूत्रमुत्तरसूत्रपूर्वपक्षत्वेन योजयन्ति । तत्रायमर्थः । ते प्राणाः कतीत्याकाङ्क्षायां - सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः १. सप्त जिव्हाः । अष्टौ ग्रहा अष्टावतिग्रहाः ( मुं. २/१८ ) इति । सप्त इति । सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ ( तै. सं ५ /१/७/१ ) इति । नव वै पुरुषे प्राणा नाभिर्दशमी । दश वे पशोः प्राणा आत्मा एकादश: (बृ. ३/९/४ ) इत्येवमादिषु नानासंख्या प्राणानां प्रतीता । तत्र श्रुतिविप्रतिषेधे किं युक्तमिति संशये सप्तैवेति प्राप्तम् । कुतः । गतेः । १५ सप्तानामेव गतिः श्रूयते । सप्त इह लोका येषु चरन्ति प्राणा गुहाशया निहताः सप्त सप्त (मुं. २/१/८ ) इति । किंच । विशेषितत्वाच्च । जीवस्योत्क्रमणसमये सप्तानामेव विशेषितत्वम् । अन्य तु पुनरेतेषामेव वृत्तिभेदाभेदा इत्येवं प्राप्ते || २|४|५ ॥ १ ॥
उच्यते ।
१५९
२ हस्तादय इत्यधिकरणम् ।
हस्तादयस्तु स्थितेतो नैवम् ॥ २४६ ॥
पूर्वसंबन्ध उत्सूत्रं पूर्वपक्ष: । तुशब्दः पूर्वपक्षं व्यावर्तयति । हस्तादयः सप्तभ्योधिकाः हस्तौ चादातव्यं च । उपस्थश्वानन्दयितत्र्यं च । पायुश्व विसर्जयितव्यं च । पादौ च गन्तव्यं च ( प्र. ४८ ) इति ।
।
10-A snd Com. सप्त इति before सप्त वै ।