________________
अ. २ पा. ४ सु. १
अणुभाष्यम् ।
द्वितीयाध्याये चतुर्थः पादः ॥
१ तथा माणा इत्यधिकरणम् | तथा प्राणाः || २|४|१ ॥
जीवशरीरवर्तिनां प्राणादीनां विचारार्थं पादारम्भः । तत्र जीवं ५ निरूप्य तादृशधर्मवत्त्वं प्राणेतिदिशति । प्राणशब्दप्रयोगः प्रियत्वाय प्राणा इन्द्रियाणि । मनसो मुख्यत्वादेकवचनम् । उत्क्रान्तिगत्यागतीनामित्यारभ्य सर्वोपपत्तिरत्रातिदिष्टा चिदंशस्यापि तिरोभाव इति पृथङ् निरूपणम् । ननु तद्गुणसारत्वादयः कथमुपदिश्यन्त इति चेत् । न । सत्यमस्ति । तत्रापि ये प्राणं ब्रह्मोपासते ( तै. २ ३ ) इति ॥ १ ॥
१५८
गौण्यसंभवात् ॥ २४२ ॥
ननूत्कान्त्यादिश्रुतिर्गौणी भविष्यति । न । गौण्यसंभवात् । सा श्रुतिर्गौणी न संभवति । एकैव श्रुतिर्जीवे मुख्या प्राणे गौणीति कथं संभवति || २|४|२ |
तत्प्राक् श्रुतेश्व || २|४|३ ॥
जडत्वेनाधिकविचारोत्र क्रियते । सृष्टेः पूर्वमपि प्राणादीनां स्थितिः श्रूयते । असद्वा इदमग्र आसीत्तदाहुः किं तद्सदासीदिति ऋषयो वाव तेथे असदासीत्तदाहुः के ते ऋषय इति प्राणा वा ऋषयः (बृ. २/२/३ ) इति । ननु – संदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ( छां. ६।२।१ )इति विरोध इति चेत् । न । स्वरूपोत्पत्तिरेवात्र निषिध्यते । जीववत् । २. न तूमः । उद्गमात् पूर्वं तु सदेवेति श्रुतिः । चकारान्मोक्षे तस्यापि संपत्तिः श्रूयते स्थलान्तरे । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ( मुं. २/१/३ ) इति श्रुतिर्विस्फुलिङ्गसदृशी || २|४|३ | तत्पूर्वकत्वाद्वाचः || २|४|४ ॥
मनः पूर्वरूपं वागुत्तररूपमिति । तस्य यजुरेव शिरः ( तै. २ ३). १५ इति । तथा च वेदानां स्वत उत्पत्त्यभावात्तत्पूर्वरूपमनसः कथ
मुत्पत्तिः || २|४|४ ||
26-B om. रूप before मनसः |
१५