________________
१५७
१६ अंशो नानाव्यपदेशादित्याधिकरणम् । [अ. २ पा. ३ सू. ५३ शस्य तिरोहितत्वात् । चकारादाकारस्याप्यभावः । न तु सर्वथा प्रतिबिम्बवन्मिथ्यात्वं जलचन्द्रवदित्येकस्यानेकत्वे दृष्टान्तः । तथा सत्यध्यासव स्वस्य न स्यात् । तत्र वृत्त्यादिदोषप्रसंगश्व । अतो न मिथ्यात्वरूप आभासोत्र विवक्षितः || २|३|५० ॥
अदृष्टनियमात || २|३|५१ ॥
ईशित्वाय नैयायिकाद्यभिमतं जीवरूपं निराकरोति । नानात्मानो व्यवस्थात इति भोगव्यवस्थया जीवनानात्वमङ्गीकृतम् । तत्रादृष्टस्य नियामकत्वं तन्मते सिद्धम् । देशान्तरवस्तुत्पत्त्यन्यथानुपपत्त्या व्यापकत्वं चाङ्गीकृतम् । एवं च क्रियमाणे मूल एव कुठारः स्यात् । १. सर्वेषामेव जीवानामेकशरीरसंबन्धात् कस्यादृष्टं तद्भवेत् । न च मिथ्याज्ञानेन व्यवस्था । तत्रापि तथा । न चानुपपत्त्या परिकल्पनम् । श्रुत्यैवोपपत्तेः । एतेन विरोधादृषिप्रामाण्यमपि निराकृतम् || २|३|५१ ॥ अभिसंध्यादिष्वपि चैवम् || २|३|५२ ॥
ननु मनः प्रभृतीनां नियामकत्वात्तेषामीश्वरेच्छया नियतत्वान्न १५ दोष इति चेन्न । पूर्ववदेव दोषप्रसक्तिः । तादृशेश्वरकल्पना च पूर्वमेव निराकृता || २|३|५२ ॥
प्रदेशादिति चेन्नान्तर्भावात् ॥ २।३।५३ ॥
|
आत्मनो विभुत्वेपि प्रदेशभेदेन व्यवस्था | आत्मनि तादृशः प्रदेशविशेषोस्ति येन सर्वमुपपद्यत इति चेन्न । अन्यस्यापि प्रदेशस्तत्रान्त२० र्भवति । तस्यैव वा देशस्य देशान्तरगमने पूर्वदेशस्य त्यक्तत्वात्सोंशोंतभवेत् तिरोभवेदिति ॥ २।३।५३ ॥ १६ ॥
I
इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये द्वितीयाध्यायस्य तृतीय: पादः ॥ २३ ॥
21 - A° and Cread तिरोभूतो भवेत for तिरोभवेद ।