________________
अ. २ पा. ३ सू. ४७]
अणुभाष्यम् ।
स्मरन्ति च || २|३|४७ ॥
1
१०
स्मरन्ति च सर्वेप्युषयोशिनो दुःखासंबन्धमंशस्य दुःखसंबन्धं स्मरन्ति । तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्वापि पद्मपत्रमिवाम्भसा इति । कर्मात्मा त्वपरो योसौ मोक्षबन्धैः स ५ युज्यते । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ( क. २/५/११ ) चकारात् - तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति ( श्वे. ४ । ६ । ) इति || २|३४७ ॥ अनुज्ञापरिहारी देहसंबन्धाज्योतिरादिवत् ॥ २।३।४८ ॥ ननु जीवस्य भगवदंशत्वे विधिविषयत्वाभावात्कर्मसंबन्धाभावेन कथं फलसंबन्धः । जीवस्य च पुनरनेकदेहसंबन्धात् कः शूद्रः का भार्येति ज्ञानमप्यशक्यम् । अतः कर्ममार्गस्य व्याकुलत्वात् कथं जीवस्यापि दुःखित्वमित्याशङ्कय परिहरति । अनुज्ञापरिहारौ विधिनिषेधौ जीवस्य देहसंबन्धाद्यो देहो यदा गृहीतस्तत्कृतौ । यथा शवाग्निश्चाण्डालभाण्डस्थमुदकं तद्वटादिश्व परिन्हियते । एवमुत्कृष्टं परिगृह्यते तथा जीवेपि देहसंबन्ध५५ कृतः । संबन्धवाध्यासिको भगवत्कृतश्च । आध्यासिको हि ज्ञानान्निव ते । द्वितीयो भगवतैव । जीवन्मुक्तानामपि व्यवहारदर्शनात् । श्रुतिस्तु भगवत्कृत संबन्धमेवाश्रित्याग्निहोत्रादिकं विधत्ते । अन्यथा विद्यां स्वाज्ञानं च बोधयन्ती कर्माणि न विदध्यात् । शब्दज्ञानस्य पूर्वमेव सिद्धत्वात् । कथं सिद्धवद्यावज्जीवं विदध्यात् । न्यासोपि देहसंबन्ध एव ॥ २।३।४८ ॥ असंततेश्वाव्यतिकरः ॥ २।३।४९ ॥
I
नन् देहस्यापि बाल्यकौमारादिभेदात्कथं कर्मकाले ब्राह्मणत्वादि । जीवैक्यादितिचेद् . देहान्तरेपि स्यादिति तत्राह देहान्तरे संततिरपि नास्ति । बाल्यादिभेदे पुनः संततिरेका । अतः संततिभेदान्न कर्मणां सांकर्यमिति ॥ २|३|४९ ॥
२०
१५६
१५
आभास एव च ॥ २।३।५० ॥
ननु सच्चिदानन्दस्य ब्रह्मणोंशः सच्चिदानन्द एव भवेदतः कथं प्रवाहे प्रवेशो भगवतश्व सर्वकार्याणि तत्राह । आभास एव जीवः । आनन्दा