________________
२५५ १६ अंशो नानाव्यपदेशादित्यधिकरणम् ।।अ.२ पा. स्. ।
निरिन्द्रियात्स्वरूपेण तादृशादिति निश्चयः । सदंशेन जडाः पूर्व चिदंशेनेतरे अपि । अन्यधर्मतिरोभावा मूलेच्छातोस्वतन्त्रणः ॥ ३२ ॥
इति । ब्रह्मवादेशपक्ष एव । .. नन्वंशत्वे सजातीयत्वमायाति । श्रुत्यन्तरे पुनः-ब्रह्मदाशा ब्रह्मेमे कितवा उत । (आथर्वणिकब्रह्मसूक्ते) अत्र सर्वस्यापि ब्रह्मविज्ञानेन विज्ञानप्रतिज्ञानाद् दाशादीनामपि ब्रह्मत्वं प्रतीयते । तत्कार्यत्व एव स्यादिति
चेन्न । अन्यथा प्रकारान्तरेणाप्येके शाखिनो दाशकितवादित्वमधीयते १० शरीरत्वेनांशत्वेन च । स्वरूपतः कार्याभावेपि प्रकारभेदेन कार्यत्वात् ।
तथा च न साजात्यम् । आनन्दांशस्य तिरोहितत्वात् । धर्मान्तरेण तु साजात्यमिष्टमेव ॥ राश४३ ॥
मन्त्रवर्णात् ॥ २०॥४४॥ पुरुष एवेद सर्वम् (ऋ. सं. १०।९०।२) इत्युक्त्वा -पादोस्य १५ विश्वा भूतानि ( ऋ. सं. १०।९।३) इति भूतानां जीवानां पादस्वं पादेषु स्थितत्वेन वांशत्वमिति ॥ २॥२४४ ॥
अपि स्मर्यते ॥ २॥३॥४५॥ - वेदे स्वतन्त्रतयोपपाद्य वेदान्तरेपि तस्यार्थस्यानुस्मरणम् । ममैवांशो जीवलोके जीवभूतः सनातनः (भ.गी. १५/७ ) इति ॥ २॥३॥४५॥ ... प्रकाशादिवन्नैवं परः ॥ २॥३॥४६॥
जीवस्यांशत्वे हस्तादिवत् तदुःखेन परस्यापि दुःखित्वं स्यादिति चेन्न । एवं परो न भवति । एवमिति प्रकारभेदः । द्विष्टस्वेनानुभव इति यावत् । अन्यथा सर्वरूपत्वात्कुत एवं तत्राह । प्रकाशादिवत् । नामेहि
तापो न हिमस्य तत्स्यात् ( भा. ११।२३।५६ ) इति । प्रकाशग्रहणं १५ धर्मत्वद्योतनाय । दुःखादयोपि ब्रह्मधर्मा इति । अतो द्वैतबुद्ध्यांशस्यैव
दुःखित्वं न परस्य । अथवा प्रकाशः प्राकाश्यदोषेण यथा न दुष्टः । पापस्यापि तदंशत्वादिति ॥ २॥३॥४६ ॥