________________
भ. २ पा. सू..]
मणुभाज्यम् ।
इति । सर्वकर्ता सर्वभोक्ता सर्वनियन्तेति । सर्वरूपत्वान्न भगवति दोषः ॥ २॥३॥४१॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः॥२॥३॥४२॥
___ ननु वैषम्यनैपुण्ययोर्न परिहारः । अनादित्वेन स्वस्यैव कारयि५ तृत्वादिति पक्षं तुशब्दो निवारयति । प्रयत्नपर्यन्तं जीवकृत्यम् । अग्रे तस्याशक्यत्वात्स्वयमेव कारयति । यथा बालं पुत्रं यतमानं पदार्थगुणदोषी वर्णयनपि तत्प्रयत्नाभिनिवेशं दृष्ट्वा तथैव कारयति । सर्वत्र तत्कारणत्वाय तदानीं फलदातृत्वे येच्छा तामेवानुवदति । उन्निनीषति । अधोनिनीष
तीति । अन्यथा विहितप्रतिषिद्धयोर्वैयर्थ्यापत्तेः । अप्रामाणिकत्वं न । १. फलदाने कर्मापेक्षः । कर्मकारणे प्रयत्नापेक्षः । प्रयत्ने कामापेक्षः । कामे
प्रवाहापेक्ष इति मर्यादारक्षार्थं वेदं चकार । ततो न ब्रह्माण दोषगन्धोपि । न चानीश्वरत्वम् । मर्यादामार्गस्य तथैव निर्माणात् । यत्रान्यथा स पुष्टिमध्य इति ॥ २॥३॥४२ ॥ १५ ॥
१६ अंशो नानाव्यपदेशादित्यधिकरणम् । अंशो नानाव्यपदेशादन्यथा चापि दाशकित
वादित्वमधीयत एके ॥ २॥३॥४३॥ जीवस्य ब्रह्मसंबन्धि रूपमुच्यते । जीवो नाम ब्रह्मणोंशः । कुतः । नानाव्यपदेशात् । सर्व एवात्मानो व्युञ्चरन्ति कपूयचरणा रमणीयचरणाः इति च । ननु ब्रह्मणो निरवयवत्वात्कथं जीवस्यांशत्वमिति वाच्यम्। न हि ब्रह्म निरंशं सांशमिति वा क्वचिल्लोके सिद्धम् । वेदैकसमधिगम्यत्वात् । साच श्रुतिर्यथोपपद्यते तथा तदनुल्लङ्घनेन वेदार्थज्ञानार्थं युक्तिर्वक्तव्या । सा चेत्स्वयं नावगता तपो विधेयम् । अभिज्ञा वा प्रष्टव्या इति । न तु सर्वविप्लवः कर्तव्य इति ।
तत्रैषा युक्तिः। विस्फुलिङ्गा इवानेहि जड जीवा विनिर्गताः । सर्वतः पाणिपादान्तात्सर्वतोक्षिशिरोमुखात् ॥ ३१ ॥