________________
१५१
१४ कर्ता शास्त्रार्थवत्वाधिकरणम् । [ अ. २५ा. सु. ३५
व्यपदेशदशायामप्यानन्दांशस्य नात्यन्तमसत्त्वम् । पुंस्त्वादिवत् । यथा पुंस्त्वं सेकादिसामर्थ्यं बाल्ये विद्यमानमेव यौवने प्रकाशते तथानन्दांशस्यापि सत एव व्यक्तियोगः || २|३|३१ ॥
नित्योपलब्ध्यनुपलब्धि प्रसंगोन्यतरनियमो वान्यथा ॥ २।३।३२ ॥
ननु कथमेवं स्वीक्रियते । इदानीं संसारावस्थायां सच्चित्प्राकट्य - मेव । मोक्षे त्वानन्दांशोपि प्रकट इति तन्निवारयति । तथा सति नित्यमुपलब्धिः स्यादानन्दांशस्य । तथा सति न संसारावस्थोपपद्येत । अथानुपलब्धिः सर्वदा तथा सति मोक्षदशा विरुध्येत । अथान्यतरनियमः । १० जीवो निरानन्द एव ब्रह्म त्वानन्दरूपम् । तथा सति ब्रह्मैव सन् ब्रह्माप्येति ( बृ. ४/४/६ ) इति श्रुतिविरोधः । तस्मात्पूर्वोक्त एव प्रकार: स्वीकर्तव्य इति सिद्धम् || २|३३२ ॥ १३ ॥
१५
२०
१४ कर्ता शास्त्रार्थवत्त्वादित्यधिकरणम् । कर्ता शास्त्रार्थवत्त्वात् ॥ २।३।३३ ॥ सांख्यानां प्रकृतिगतमेव कर्तृत्वमिति तन्निवारणार्थमधिकरणारम्भः । कर्ता जीव एव । कुतः । शास्त्रार्थवत्त्वात् । जीवमेवाधिकृत्य बेदेभ्युदयनिःश्रेयसफलार्थं सर्वाणि कर्माणि विहितानि ब्रह्मणोनुपयोगात् । जडस्याशक्यत्वात् । संदिग्धेपि तथैवाङ्गीकर्तव्यम् || २|३|३३ ॥ विहारोपदेशात् ॥ २।३।३४ ॥
तस्यैव गान्धर्वादिलोकेषु - यद्यत्कामयते तत्तद्भवति - इति विहार उपदिष्टः। ततश्च कर्तृत्वभोक्तृत्वयोः साधुकारी साधुर्भवति - इति सामानाधिकरण्यश्रवणाज्जीव एव कर्ता || २| ३ | ३४ ॥
उपादानात् ॥ २।३।३५ ॥
तदेषां प्राणानां विज्ञानेन विज्ञानमादाय (बृ. २/१/१७ ) इति
17-M om. aegru after I i