________________
अ. पा. सू. २९ ]
अणुमाष्यम् ।
पाय तस्यैव दक्षिणमार्गेण पुनरावृत्तिमुक्त्वा ससाधनेन ब्रह्मज्ञानेनार्चिरादिद्वारा ब्रह्मप्राप्तिमुक्त्वा न स पुनरावर्तते ( कालाग्नि. २ ) इत्यनावृत्तिं बदञ् छास्त्रपर्यवसानेन सर्वान् वेदान्तानव्याकुलतया योजितवान् ।
१५०
१०
तत्र कश्चित् तद्व्यपदेशेन प्रोक्तानि तत्त्वमस्यादिवाक्यानि स्वीकृत्य जीव५ मात्रं च ब्रह्म स्वीकृत्य तदतिरिक्तस्य सर्वस्य कारणांशकार्यरूपस्य मिथ्यात्वं परिकल्प्य तद्बोधकश्रुतीनामर्थवादत्वेन मिथ्यात्वं स्वीकृत्य सुषुप्तिसंपत्योर्भगवता प्रकटीकृतमानन्दरूपत्वं तत्प्रतिपादकवाक्यानां सद्योमुक्तिरूपफलवाचकत्वमुक्त्वा क्रममुक्तिमुपासनापरत्वेन योजयित्वा वेदसूत्राणि व्याकुलीचकार । तद् वेदान्तानां ब्रह्मपरत्वं जीवपरत्वं वेति यदत्र युक्तं तत्सद्भिरनुसंधेयम् || २|३|२९ ॥
यावदात्मभावित्वाच्च न दोषस्तदर्शनात् || २|३|३० ॥
ननु कथमन्यस्य नीचस्य सर्वोत्कृष्टव्यपदेशोपि । न हि प्रामाणिकैः सर्वथायुक्ते व्यपदेशः कियते । न चोक्ततद्गुणसारत्वाद् ब्रह्मण आनन्दांशस्य प्राकट्यादिति वाच्यम् । तथा सति प्राज्ञवत्पुनस्तिरोहितं २० स्यादिति तस्य तद्व्यपदेशो व्यर्थोयुक्तश्चेति चेत् । नायं दोषः । कुतः । यावदात्मभावित्वात् । पश्वाद्यावत्पर्यन्तमात्मा नित्यत्वात् । सर्वदानन्दांशस्य प्राकट्यात् । तस्य तथैव दर्शनमस्ति । अनावृतैश्वर्षादीनामुक्तत्वात् । प्राज्ञात्संपन्नत्वं विशेष: । चकारात्तस्य चानन्दः प्रकटित इति दूषणगन्धपि ।
२५ व्यपदेशो वा नात्यन्तमयुक्तस्य । यावदात्मा ब्रह्म भवत्यानन्दांशप्राकट्येन तावदेव तद्व्यपदेशः । राजज्येष्ठपुत्रवत् । एतदेवोक्तम् ।
व्यापकत्वश्रुतिस्तस्य भगवत्त्वेन युज्यते ।। २९ ।। आनन्दांशाभिव्यक्तौ तु तत्र ब्रह्माण्डकोटयः ॥ प्रतीयेरन्परिच्छेदो व्यापकत्वं च तस्य तत् ॥ ३० ॥ इति || २|३|३० ॥
10
पुंस्त्वादिवत्त्वस्य सतोभिव्यक्तियोगात् ।। २/३ | ३१ ॥ -