________________
१३ गुणसारत्वाधिकरणम्।
[अ.२पा. ७० २९
तथा च दर्शयति ॥ २।३।२७ ॥ हृदयायतनमणुपरिमाणत्वं चात्मनोभिधाय तस्यैवालोमभ्य आनखाग्रेभ्य इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति ॥ २।३।२७ ॥ पृथगुपदेशात् || २|३|२८ ॥
प्रज्ञया शरीरं समारुह्य ( कौ. ३।६ ) इति करणत्वेन पृथगुपदेशाचैतन्यं गुणः || २|३|२८ ॥ १२ ॥
१३ तद्गुणसारत्वादित्यधिकरणम् । तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् || २|३|२९ ॥
ननु तत्त्वमस्यादिवाक्यैः परमेव ब्रह्म जीव इति कथमणत्वमिती१, मामाशङ्कां निराकरोति तुशब्दः । तस्य ब्रह्मणो गुणा: प्रज्ञाद्रष्टुत्वादयस्त एवात्र जीवे सारा इति जडवैलक्षण्यकारिण इत्यभात्ये राजपदप्रयोगवज्जीवे भगवद्व्यपदेशः । मैत्रेयीति संपूर्णे ब्राह्मणे भगवत्त्वेन जीव उक्तः ।
ननु कथमन्यस्यान्यधर्मवत्त्वेन कथनम् । नहि निरूपणस्थल एवोपचारः संभवति । तत्राह । प्राज्ञवत् । तद्यथा प्रियया स्त्रिया संप१५ रिष्वक्तः ( बृ. ४।३।२१ ) इत्यत्र - एवमेवाय शारीर आत्मा प्राज्ञेनात्मना संपरिष्वक्तः (बृ. ४ | ३ |२१ ) इत्यभिधाय प्राज्ञस्वरूपमाह । तद्वा अस्यैतदतिच्छन्दोपहतपाप्माभय रूपमशोकान्तरमत्र पिता अपिता भवति ( बृ. ४।३।२२ ) इत्यादि । प्राज्ञश्व सुषुमसाक्षी । न हि तस्यापहतपाप्मत्वमस्ति ब्रह्मलिङ्गात् । एवमेव शारीरस्यापि जीवस्य ब्रह्मधर्मबोधिकाः : श्रुतयः ।
इदमत्र वक्तव्यम् । सर्वोपनिषत्सु ब्रह्मज्ञानं परमपुरुषार्थसाधनमिति तन्निर्णयार्थं भगवान् व्यासः सूत्राणि चकार । तत्र ब्रह्मसूत्रे विचारं प्रतिज्ञाय जगत्कर्तृत्वाद्यसाधारणलक्षणं ब्रह्मण: प्रतिज्ञाय समन्वयनिरूपणे जीववाक्यानि दूरीकृत्याविरोधे ऐक्येप्यहिताकरणादिदो५ षमाराङ्कय - अधिकं तु भेदनिर्देशात् ( ब. सू. २/१/२२ ) इति परिहृत्य जीवस्याणुत्वमुपचाराद् ब्रह्मत्वमंशत्वं पराधीनकर्तृत्वादिकं प्रति
२०