________________
म. १ पा. सू. २२]
अणुभाष्यम् ।
ग्रमात्रो ह्यपरोपि दृष्टः ( श्वे. ५।८ ) इति चोन्मानम् । चकारात्स्वप्नप्रबोधयोः संधावागतिदर्शनम् ॥ २।३।२२ ॥
अविरोधश्चन्दनवत् ॥ २॥२३॥ अणुत्वे सर्वशरीरव्यापि चैतन्यं न घटत इति विरोधो न भवति ५ चन्दनवत् । यथा । चन्दनमेकदेशस्थितं सर्वदेहसुखं करोति महातप्ततैलस्थितं वा तापनिवृत्तिम् ॥ २।३२३॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाधृदि
हि ॥ २॥२४ ॥ चन्दनेवस्थितिवशेष्यमनुपहतत्वचि सम्यतयावस्थानं तस्मात् । त्वच १० एकत्वात् तत्र भवतु नाम नतु प्रकृते तथा संभवतीति चेन्न । अभ्युपग
मात् । अभ्युपगम्यते जीवस्यापि स्थानविशेष: । हृदि हि । हृदि जीवस्य स्थितिः । गुहां प्रविष्टाविति हि युक्तिः ॥ २।३।२४ ॥
गुणाद्वालोकवत् ॥ २॥२५॥ जीवस्य हि चैतन्यं गुणः स सर्वशरीरव्यापी । यथा माणप्रवकस्य १५ कान्तिर्बहुदेश व्याप्नोति तद्वत् । प्रभाया गुणत्वमेव स्पर्शानुपलम्भात् ।
उदकगतोष्ण्यवत् । न च विजातीयस्यारम्भकत्वं प्रमाणाभावात लोकप्रतीतिस्तु सर्वैर्वादिभिरुपपाद्या । नत्र गुणिकल्पनापेक्षया गुण एव स्थलान्तर आरभ्यत इति कल्प्यताम् । तथैव लोकप्रतीतेः । पुष्परागादेरपि प्रभारूपमेव तावद्देशं व्याप्नोतीति मणिस्वभावादेवाङ्गीकर्तव्यम् । आरम्भकस्य .. तेजसस्तत्राभावात् । कान्तिः प्रभा रूपमिति हि लोके पर्यायः । वाशब्दो
यथालोकं युक्तिः कल्पनीयेति सूचयति । ब्रह्मसिद्धान्ते तु यथैव लोके । दृश्यते तथैव ब्रह्मणो जातमिति न कल्पनालेशोपि ॥ २।३२५ ॥
व्यतिरेको गन्धवत् ॥ २॥२६॥ सिद्धं दृष्टान्तमाह । यथा चम्पकादिगन्धश्चम्पकव्यवहितस्थलेप्युपल२५ भ्यते वेदोक्तत्वादस्य दृष्टान्तत्वम् । यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणी दराद्गन्धा वाति (ना. ११) इति । अन्यथा कल्पना त्वयुक्तत्यवोचाम ॥ २॥३॥२६॥