________________
*૭
१० नात्माथुतेरित्यधिकरणम् | [ अ. ३५. ३ ६. २२ तथापि बहुवादिविप्रतिपन्नत्वाद् युक्तिभिः साधयति । ब्रह्मलक्षणयार्थम कान्तिपूर्वकत्वमुक्तम् || २|३|१९ ॥
स्वात्मना चोत्तरयोः ॥ २।३।२० ॥ उत्क्रान्तिगत्यागतीनां संबन्ध इन्द्रियादिभिः परिष्वङ्गोप्यस्ति । ५ ततः संदेहोपि भवेत् किमुपाधित एतेषां संबन्धो भवेत्स्वतो वेति ॥ उत्तरयोर्गत्यागत्योः स्वात्मना केवलस्वरूपेण । ऊर्णनाभिर्यथा तन्तून्सृजते संचरत्यपि ॥ जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥ ब्रह्मोपनिषत् । अनेन जीवेनात्मनानुप्रविश्य ब्रह्माप्येति । काम१० रूप्यनुसंचरन् ( तै. उ. ३।१० ) इति वा ।
अथवोत्कान्तिगत्यागतीनां जीवसंबन्ध एवं बोध्यते नाणुत्वम् । स्वात्मना चोत्तरयोरित्यणुत्वम् । अङ्गुष्ठमात्रं पुरुषं निश्वकर्ष यमो बलात् ( म. भा. ३।२९७११७ ) इत्युत्क्रमे गत्यतिरिक्ते स्वातन्त्र्याभावात् । स्वात्मना जीवरूपेण चकारादिन्द्रियैश्व गत्यागत्योः संबन्धी जीव इत्यर्थः । १५ अतो मध्यपरिमाणमयुक्तमित्यणुरेव भवति ॥ २१३२० ॥
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २|३|२१ ॥
जीवो नाणुर्भवितुमर्हति । कुतः । अतच्छ्रतेः । अणुत्वविपरीतव्यापकत्वश्रुतेः । स वा एष महानज आत्मा योयं विज्ञानमय: (बृ. ४/४/२२ ) इति चेन्न । इतराधिकारात् । इतरः परं ब्रह्म । तस्याधिकारे महानज इति वाक्यम् । प्रकरणेन शब्दाश्च नियम्यन्ते । अन्यपरा अपि योगेन ब्रह्मपरा भविष्यन्ति ॥ २।३।२१ ॥
૩.
स्वशब्दोन्मानाभ्यां च ॥ २।३।२२ ॥
स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति (बृ. ४ | ३ | ९ ) इति स्वशब्दोणुपरिमाणं जीवं बोधयति । न हि स्वप्ने २५ व्यापकस्य वा शरीरपरिमाणस्य वा विहरणं संभवति । वालाग्रशतभागस्य शतधा कल्पितस्य तु । भागो जीवः स विज्ञेय: ( श्वे. ५/८ ) इति आरा