________________
भ. २ पा. मू. १j
अणुभाष्यम् ।
११ ज्ञोत एवेत्यधिकरणम् । गुणान्निरूपयन्प्रथमतश्चैतन्यगुणमाह ।
ज्ञोत एव ॥ २॥३॥१८॥ ज्ञश्चैतन्यस्वरूपः ।अत एव श्रुतिभ्यो विज्ञानमय इत्यादिभ्यः । ५ सर्वविप्लववादी ब्रह्मवाक्यान्युदाहृत्य सूत्रोक्तसिद्धान्तमन्यथाकृत्य श्रुतिसूत्रोल्लङ्घनेन प्रगल्भते । स वक्तव्यः । किं जीवस्य ब्रह्मत्वं प्रतिपाद्यते जीवत्वं वा निराक्रियत इति । आद्य इष्टापत्तिः । न हि विस्फुलिङ्गोग्न्यंशो भूत्वा नाग्निः । द्वितीये स्वरूपनाशः । जीवत्वं कल्पितमिति चेन्न ।
अनेन जीवेनात्मना ( छां. ६।३।२) इतिश्रुतिविरोधात् । न चानादिरयं "जीवब्रह्मविभागो बुद्धिकृतः । प्रमाणाभावात् । सदेव सोम्येदमग्र आसीदे
कमेवाद्वितीयम् ( छां. ६।२।१) इति श्रुतिविरोधश्च । न च जीवातिरिक्तं ब्रह्म नास्ति । सर्वश्रुतिसूत्रनाशप्रसंगात् । यः सर्वज्ञः सर्वशक्तिः । अयमात्मापहतमाप्मा ( छां. ८।१।५ ) अधिकं तु भेदनिर्देशात् (ब्र. सू.।
२।१।२२) इत्यादिबाधः । तस्मात् सदंशस्य तद्व्यपदेशवाक्यमात्रं १५ स्वीकृत्य शिष्टपरिग्रहार्थमाध्यमिकस्यैवायमपरावतारो नितरां सद्भिपेक्ष्यः
॥ २।३।१८ ॥ ११ ॥
-
१२ उत्क्रान्तिगत्यागतीनामित्यधिकरणम् । उत्कान्तिगत्यागतीनाम् ॥ २॥३॥१९॥
अत एवेति वर्तते । स यदास्माच्छरीरादुत्क्रामति स हैवैतेः सर्वै२० रुत्क्रामति । ये के चास्माल्लोकात्प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ( कौ. ३।३ ) इति । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे । श्रुत्युक्तानामुत्क्रान्तिगत्यागतीनां श्रवणाद्यथायोग्यं तस्य परिमाणमङ्गीकर्तव्यम् यद्यपि-आराग्रमात्रो ह्यपरोपि दृष्टः (श्वे. ५।८) इतिश्रत्यैव परिमाणमुकं
14-A and Crend ke
for सदस्य
।