________________
ફેબ્રુ
काशयोः प्राण एव गतत्वात् । आकाशात्पूर्वं विज्ञानमनसी उत्पन्ने इति वक्तव्यम् । तयोरग्रे वचनमेव लिङ्गमिति । अतस्तयोरुत्पत्तिर्वक्तव्येति चेन्न । अविशेषात् । नामरूपविशेषवतामेवोत्पत्तिरुच्यते न त्वनयोः । विज्ञानमयस्य जीवत्वान्मनोमयस्य च वेदत्वात् । अतो भूतभौतिकप्रवेशाभावान्न ५ तयोरुत्पत्तिर्वक्तव्या ॥ २|३|१५ ॥
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ २।३।१६ ॥
१.
ननु विज्ञानमयस्य जीवस्त्रानुत्पत्तौ सर्वव्यवहारोच्छेदः । उत्पत्तिस्तु त्रिविधा निरूपिता । अनित्ये जननं नित्ये परिच्छिन्ने समागम ( आ. का. २८ ) इति । तथा च जीवस्य समागमलक्षणाप्युत्पत्तिर्न स्यादितीमामाशङ्कां निराकरोति तुशब्दः । चराचरे स्थावरजङ्गमे शरीरे तयोर्विशेषेणापाश्रय आश्रयः शरीरसंबन्ध इति यावत् । स तु स्यान्न तु स्वतः । ननु शरीरस्योत्पत्तौ जीवोप्युत्पद्यते । अन्यथा जातकर्मादीनामभावप्रसंगादिति चेन्न । तद्व्यपदेशस्तस्य शरीरस्य जन्ममरणधर्मवत्त्वेन १५ जीवव्यपदेशो भाक्तो लाक्षणिकः । कुतः । तद्भावभावित्वात् । शरीरस्यान्वयव्यतिरेकाभ्यामेव जीवस्य तद्भावित्वम् । देहधर्मो जीवस्य भाक्तः । तत्संबन्धेनैवोत्पत्तिव्यपदेश इति सिद्धम् || २।३।१६ ॥ ९ ॥
१० नात्माश्रुतेरित्यधिकरणम् ।
[ अ. पा. ३ . १७
१० नात्माश्रुतेरित्यधिकरणम् ।
नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः || २|३ | १७ ॥
ननु जीवोप्युत्पद्यतां किमिति भाक्तत्वं कल्प्यत इति चेत् । न । आत्मा नोत्पद्यते । कुतः । अश्रुतेः । न ह्यात्मन उत्पत्ति: श्रूयते । देवदत्तो जातो विष्णुमित्रो जात इति देहोत्पत्तिरेव । नतु तद्व्यतिरेकेण पृथग् जीवोत्पत्तिः श्रूयते । विस्फुलिङ्गवदुच्चरणं नोत्पत्तिः । नामरूपसंबन्धाभावात् । एतस्य गुणाः स्वरूपं चाग्रे वक्ष्यते । किंच । नित्यत्वाच्च ताभ्य: श्रुतिभ्यः । १५ अयमात्माजरोमरः ( बृ. ४।४।२५ ) न जायते म्रियते ( कठ. १/२/१८) इत्येवमादिभ्यः | २|३|१७ ॥ १० ॥
१९ [ अणुभाग्य ]