SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अ. २ पा. सू. १२] अणुभाष्यम् । १४४ भूतसहपाठात् । शब्दान्तरमद्भ्यः पृथिवीति । तस्मादन्नशब्देन पृथिव्येव ॥ २।३।१२ ॥ ६ ॥ ७ तदभिध्यानादेवेत्यधिकरणम् । तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ २॥३॥१३॥ ५ आकाशादेव कार्याद्वाय्वादिकार्योत्पत्तिं तुशब्दो वारयति । स एव परमात्मा वायवादीन् सृजति । कथं तच्छन्दवाच्यतेति चेत्तदभिध्यानात् । तस्य तस्य कार्यस्योत्पादनार्थं तदभिध्यानं ततस्तदात्मकत्वं तेन तद्वाच्यत्वमिति । ननु यथाश्रुतमेव कुतो न गृह्यत इत्यत आह । तल्लिङ्गात् । सर्वकर्तृत्वं लिङ्गं तस्यैव सर्वत्र वेदान्तेष्ववगतम् । जडतो देवताया वा १० यत्किंचिज्जायमानं तत्सर्वं ब्रह्मण एवेति सिद्धम् ॥ २॥३१३॥ ७ ॥ ८ विपर्ययेणेत्यधिकरणम् । विपर्ययण तु कमोत उपपद्यते ॥ २॥३॥१४॥ यथोत्पत्तिर्न तथा प्रलयः किंतु विपर्ययेण क्रमः । अत उत्पत्त्यनन्तरं प्रलयः । कुतः । उपपद्यत । प्रवेशविपर्ययेण हि निर्गमनम् । १५ क्रमसृष्टावेवैतत् ॥ २।३।१४ ॥ ८ ॥ ९ अन्तरा विज्ञानमनसी इत्यधिकरणम् । अन्तरा विज्ञानमनसी क्रमेण तल्लिंगादिति चेन्नाविशेषात ॥ २॥३॥१५॥ तैत्तिरीयक आकाशाद्यन्नपर्यन्तमुत्पत्तिमुक्त्वान्नमयादयो निरूपिताः। २. तत्रान्नमयस्य प्राणमयस्य च सामग्री पूर्वमुत्पन्नोक्ता । आन्दमयस्तु पर मात्मा मध्ये विज्ञानमनसी विद्यमाने क्वचिदुत्पन्ने इति वक्तव्ये तत्र क्रमेणोत्पन्ने इति वक्तव्यम् । क्रमस्तु प्रातिलोम्येन । सूत्रे विपर्ययानन्तरकथनात् । अन्तरेति च वचनात् । तेजोबन्नानामन्नमये गतत्वात् । वाय्वा 23-A and Cread वचनाच for च वचनात् ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy