________________
१४३ ६ पृथिव्यधिकारेत्यधिकरणम् । । अ. २ पा. पू. १२ हिशब्देनैवमाह। छान्दोग्यश्रुतिः प्रतिज्ञाहानिनिराकरणार्थं तैत्तिरीयकमपेक्षते वाय्वाकाशयोरुत्पत्त्यर्थम् । तथा चोपजीव्यस्य प्राधान्याद् वायुभावापन्नमेव सत्तेजस उत्पादकमिति स्वीकरोति । ब्रह्मण एव सर्वोत्पात्तपक्षस्त्वविरुद्धः ॥ २॥३॥१०॥४॥
५ आप इत्यधिकरणम् ।
आपः ॥ २।३।११ ॥ तथा ह्याहेत्येव । इदमेकमनुवादसूत्रमविरोधख्यापकम् । न श्रुत्योः सर्वत्र विरोध इति ॥ २३॥११॥५॥
-
६ पृथिव्यधिकारेत्यधिकरणम् । पृथिव्यधिकाररूपशब्दान्तरेभ्यः॥२॥३॥१२॥
ता आप ऐक्षन्त बन्यः स्याम प्रजायेमहि ( छां. ६।२।४ ) इति । ता अन्नमसृजन्त ( छां. ६।२।४ ) इति । तत्रान्नशन्देन व्रीह्यादय आहोस्वित्पृथिवीति संदेहः । ननु कथं संदेहः पूर्वन्यायेनोपजीव्यश्रुतेर्बलीयस्त्वादिति चेत् । उच्यते । अद्यः पृथिवी पृथिव्या ओषधय ओषधी• भ्योन्नम् ( ते. २।१ ) इत्यग्रे वर्तते । तथा सति पृथिवीमोषधीश्च सृष्ट्वापोन्नं सृजति । आहोस्विदनशब्देनैव पृथिवीति ।
नन्वेवमस्तु पृथिव्योषधिसृष्टयनन्तरमन्नसृष्टिरिति चेत् । न । छान्दोग्यश्रुतेरपेक्षाभावान्महाभूतमात्रस्यैवाभिलषितत्वात् । एकपदलक्षणापे
क्षया तत्स्वीकारस्यगुरुत्वात्पूर्वोक्त एव संशयः । तत्रान्नमयं हि साम्य २५ मन आपोमयः प्राणस्तेजामयी वाक् (छां. ६।५४ ) इति त्रयाणां
सहचारः सर्वत्रोपलभ्यते । लोकप्रसिद्धिवर्षणभूयिष्ठलिङ्गं च । तस्मात्पृथिव्योषध्यन्नानां मध्ये भेदविवक्षया यत्किंचिद्वक्तव्येन्नमुक्तमित्यवं प्राप्ने ।
उच्यते । अन्नशब्दे पृथिवी । कुतः । अधिकाररूपशब्दान्तरेभ्यः । अधिकारो भूतानामेव । न भौतिकानाम् । नीलं च रूपं पृथिव्या एव ।