________________
अ. २ पा. : सू. ७]
अणुभाष्यम् ।
सर्वस्य विभाग उत्पत्तिः । आकाशमपि विकृतम् । लौकिकव्यवहारविपयत्वात् । यथा लोके विकृतमात्रमुत्पद्यते ।
आकाशात्पत्तौ श्रुत्या सिद्धायाम आकाशवत्सर्वगतश्च नित्यः । आकाशशरीरं ब्रह्म ( ते. १।६।२ ) स यथानन्तायमाकाश एवमनन्त ५ आत्मा वदितव्यः । आकाश आत्मा ( तै. ११७ ) इत्यादिश्रुतयः । समानेन सर्वेण य आकाशे निष्टन ( ब. शा१२) सर्वमात्मा ( मै. ६।७ ) इत्येवमादिभिरेकवाक्यतां लभन्त।
व्यवहारे त्वज्ञबोधनं वाक्यानामुपयोगः ।। २।३२७ ॥ १ ॥
२ एतेन मातरिश्वत्यधिकरणम् । एतन मातरिश्वा व्याख्यातः॥२॥३८॥
आकाशोत्पत्तिसमर्थनन मातरिश्वोत्पत्तिः समर्थिता । सषानस्तमिता दवता ( ८. १।५।२२ ) इति भौतिकवायुव्यावृत्त्यर्थमलौकिकपदम् ॥ २॥३॥८॥ २ ॥
-
-
___३ असंभवाधिकरणम् ।
असंभवस्तु सतोनुपपत्तेः ॥ २।३१९ ॥ ___ ननु ब्रह्मणाप्युत्पत्तिः स्यात् । आकाशवत्सर्वगतश्च नित्यः । इति श्रृंतराकाशन्यायेन सर्वगतत्वनिन्यत्वयारभावे इतीमामाशङ्कां तुशब्दः परिहरति । सतः सन्मात्रस्योत्पात्तन संभवति । न हि कुण्डलोत्पत्तौ कन
कोत्पत्तिरुच्यते । नामरूपविशेषाभावात् । उत्पत्तिश्च स्वीक्रियमाणा नोपप२० द्यते स्वतो न संभवति । अन्यतस्त्वनवस्था । यदेव च मूलं तदेव ब्रह्मेति
॥ २।३।९ ॥ ३॥
४ तेजोत इत्यधिकरणम् । तेजोतस्तथा ह्याह ॥ २॥३॥१०॥ तजोतो वायुतः । तथा ह्याह । वायोरमिः ( तै. २।१) इति श्रुतेः ।