________________
अ. २ पा. सू. ५) अणुभाष्यम् ।
१५२ जीवेन सर्वेषां विज्ञानमुपादीयते । तस्मादिन्द्रियादीनां करणत्वमेव । स्वातन्त्र्यादस्यैव कर्तृत्वम् । यस्तु मन्यते बुद्धिसंबन्धाज्जीवस्य कर्तृत्वमिति। स प्रष्टव्यः । किं बुद्धिकर्तृत्वं जीवे समायाति । अथवा जीवगतमेव कर्तृत्वं बुद्धिसंबन्धादुद्गच्छति । अथवा शशविषाणायितमेव कर्तृत्वं संबन्धे ५ समायाति । नाद्यः । जडत्वात् अनङ्गीकारात्पूर्वं निराकृतत्वाञ्च । द्वितीये विद्यापत्तिः उपादानविरोधश्च । तृतीये शास्त्रविरोधः ब्रह्मणि सिद्धत्वाच्च । असत्कार्यस्य निराकृतत्वात् । सर्वविप्लवस्तु माध्यमिकवदुपेक्ष्यः ॥ २३॥३५॥
व्यपदेशाच क्रियायां न चेनिर्देशविपर्ययः ॥ २३॥३६ ॥ १० व्यपदेशो-विज्ञानं यज्ञं तनुते कर्माणि तनुतेपि च ( तै. २५)
इति । अत्र सांख्ये बुद्ध्यादीनामेव कर्तृत्वं न जीवस्येति क्रियायां यागादिकर्मसु न तु भोगे । जीवस्य कर्तृत्वं न चेत् । न । तथा सति निर्देशस्य विपर्ययो भवेत् । विज्ञानेन विज्ञानमादाय (बृ. २।१।१७ ) इति
श्रुत्यनुरोधात् । प्रकृतेपि तृतीयान्ततापद्येत । अथ स्वव्यापारे कर्तृत्वं १५ तथापि पूर्वनिर्देशस्य विज्ञानमयस्य विपर्ययः स्वात् । विकारित्वं स्यात् ।
तञ्चासंगतम् । व्यच्त्वात् । विज्ञानमादायेत्यत्र विपर्यय एवैकस्य प्रदेशभेदेनार्थभेदोपि । भगवति सर्वे शब्दाः स्वभावत एव प्रवर्तन्ते । औपचारिकत्वज्ञापकाभावात् । यज्ञो यजमान इति श्रद्धादीनां शिर
स्त्वादिः । तस्माद्विज्ञानमयो जीव एव । जडस्य स्वातन्त्र्याभावान १. कर्तृत्वः ॥ २३॥३६॥
उपलब्धिवदनियमः॥ २॥३॥३७ ॥ ननु जीवस्य कर्तृत्वे हिताकरणादिदोषप्रसक्तिरिति चेत् । न । उपलब्धिवदनियमः । यथा चक्षुषेष्टमनिष्टं चोपलभत एवमिन्द्रियैः कर्म कुर्वनिष्टमनिष्टं वा प्राप्नोति ॥ २॥३॥३७ ॥
शक्तिविपर्ययात् ॥ २॥३॥३८॥ नन्वीश्वरवत्स्वार्थमन्यथा न कुर्यादिति चेत् । शक्तिविपर्ययात् । तथा सामर्थ्याभावात् । इत एव दैवावाहितमपि करोति ॥ २॥३॥३४॥