________________
११३ ४ समुदाय उभयहेतुकेपीत्यधिकरणम्। [अ. २ पा. २ सू. १० अनित्यत्वमपरमाणुत्वं च । न च प्रमाणबलेन तदतिरिक्त व्याप्तिरिति वाग्यम् । अदर्शनातू । कार्यानुपपत्तिः श्रुत्यैव परिहता ॥ २२॥१५॥
उभयथापि च दोषात् ॥ २॥२॥१६॥
परमाणूनां रूपादिमत्त्वेन तदभावे च दोषः । एकत्रानित्यत्वम-- ५ म्यत्र कार्यरूपस्य निर्मूलत्वं च । हरिद्राचूर्णसम्बन्धे रूपान्तरस्य जननाद्विरोधोपि चकारार्थः ॥ २२॥१६॥
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ २॥२॥१७॥ सर्ववैदिकानामपरिग्रहाच्चात्यन्तं सर्वथा नापेक्ष्यते ॥ २२॥१७॥३॥
४ समुदाय उभयहेतुकेपीत्यधिकरणम् । समुदाय उभयहतुकेपि तदप्राप्तिः ॥ २॥२॥१८॥
अतः परं बाह्यमतनिराकरणम् । ते समुदायद्वयं जीवभागार्थं संहन्यन इति मन्यन्ते । परमाणुसमूहः पृथिव्यादिभूतसमुदाय एकः। रूपादिस्कन्धसमुदायश्चापरः । रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्च
स्कन्धाः । तदुभयसंबन्धे जीवस्य संसारः। तदपगमे मोक्ष इति । तत्रो१५ भयहेतुकेपि समुदाय जीवस्य तदप्राप्तिः । क्षणिकत्वात् । सर्वक्षणिकन्वे जीवमात्रक्षणिकत्वे वा तदप्राप्तिः ॥ २॥२॥१८॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पतिमात्रमिमि.
नत्वात् ॥ २॥२॥१९॥ क्षणिकत्वेपि पूर्वपूर्वस्योत्तरोत्तरप्रत्ययविषयत्वात्कारणत्वात्सन्ततेरेव १. जीवत्वाज्जडत्वाच्च न काप्यनुपपत्तिरिति चेन्न । उत्पत्तिमात्रनिमित्तत्वात् ।
अनुसंधानाभ्युगपमे स्थिरत्वापत्तिः। संबन्धवियोगार्थ को ना यतेत । स्थैर्याभावात्समुदायानुपपत्तिश्च ॥ २।२।१९ ॥
उत्तरोत्पादे च पूर्वनिरोधात् ॥ २॥२॥२०॥
-
☆
A reada ohit for prof!