________________
अ. २ पा. २. २० ]
अणुभाष्यम् ।
१३४
उत्तरोत्पत्तिरपि न संभवति । उत्पन्नस्य ग्पादकत्वम् । अत उत्तरोत्पत्तिसमये पूर्वस्य नष्टत्वादुत्पत्तिक्षण एवं स्थितिप्रलयकार्यकरणसर्वाकारे विरोधादेकमपि न स्यात् ॥ २१२२० ॥
अति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २।२।२१ ॥
एका क्षणिकत्वप्रतिज्ञा । अपरा चतुर्विधान्हेतून्प्रतीत्य चित्तचत्ता उत्पद्यन्त इति वस्तुनः क्षणान्तरसंबन्धे प्रथमप्रतिज्ञा नश्यति । असति द्वितीया । द्वितीया चन्नाङ्गीक्रियत तदा प्रतिबन्धाभावात्सर्वं सर्वत एकदैवोत्पद्येत || २|२|२१ ॥ प्रतिसंख्याप्रतिसंख्या निरोधाप्राप्तिरविच्छेदात् ॥ २।२।२२ ॥ अपि च । वैनाशिकाः कल्पयन्ति । बुद्धिबोध्यत्रयादन्यत् संस्कृतं क्षणिकं चेति । त्रयं पुनर्निरोधद्वयमाकाशं च । तत्रेदानीं निरोयाङ्गीकारे पति ।
1
प्रतिसंख्यानिरोधी नाम भावानां बुद्धिपूर्वको विना । विपरीतोप्रतिसंख्यानिरोधः । त्रयमपि निरुपाख्यम् । निरोधद्वयमपि न प्राप्नाति । १५ सन्ततेरावच्छदात् । पदार्थानां च नाशकसंबन्धाभावात्प्रतिबन्धसंब-धाभावः । आद्या निरोधः पदार्थविषयको व्यर्थः । द्वितीयः क्षणिकाङ्गीकारेणैव सिद्धत्वान्नाङ्गीकर्तव्यः ॥ २२२ ॥
उभयथा च दोषात् ॥ २।२।२३ ॥
प्रतिसंख्यानिरोधान्तर्गताविद्याविनाशे मोक्ष इति क्षणिकताको २० मिथ्यावादितच मन्यन्ते । अविद्यायाः सपरिकराया निर्हेतुकविनाशे शास्त्रवैफल्यम् | अविद्यातत्कार्यातिरिक्तस्याभावान्न सहेतुकोपि । नहि बन्ध्यापुत्रेण रज्जुसर्पो नाश्यते । अत उभयथापि दोषः || २/२/२३ आकाशे चाविशेषात् ॥ २।२।२४ ॥
यच्चोक्तमाकाशमप्यावरणाभावो निरुपाख्यमिति । तन्न । आका२५ शेपि सर्वपदार्थवद्वस्तुत्वव्यवहारस्याविशेषात् ॥ २|२|२४ ॥
2- A reads for करण
30