________________
१२९ १ रचनानुपपत्तेरित्यधिकरणम् ! ! अ. २ पा. २ ४. कारयति तं यमभो निनीषति । ( को. बा. २८ ) पुण्यो वै पुण्येन कर्मणा भवति पापः पापन कर्मणा (बृ. १३) इति य । सापेक्षमाप कर्वभीश्वर इति माहात्म्यम् ।। २।१।३४ ।।
न कर्माविभागादिति चेन्नानादित्वात् ॥२॥१॥३५॥ ५ न कर्माविभागात् कार्योद्मात्पूर्वं संभवति । पश्चात्त्वन्योन्याश्रय इति चेन्न । अमादित्वात्। बीजाङ्करवत्प्रवाहस्यानादित्वात् ॥ २॥१॥३५॥
उपपद्यते चाप्युपलभ्यते च ॥ २॥१॥३६॥
कथमनादित्वमिति चेदुपपद्यते । अन्यथा कस्य संसारः । कृतहान्यकृताभ्यागमप्रसङ्गश्च । उपलभ्यते च श्रुतिस्मृत्योः । अनेन जीवनात्मना १. (छां. ६३२२) इति सर्गादौ जीवप्रयोगादनादित्वम् । तपसैव यथापूर्व स्रष्टा विश्वमिदं भवान् इति च ॥ २।१।३६ ॥
मर्वधर्मोपपत्नेश्च ॥२॥१॥३७ ।। उपसंहरति । वदोक्ता धर्माः सर्वे ब्रह्मण्युपपद्यन्ते । सर्वसमर्थत्वा.. दिति ॥२॥१॥३७॥१२॥ १५ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणभाष्ये
द्वितीयाध्यायस्य प्रथमः पादः ॥ २१ ॥
द्वितीयाध्याये द्वितीयः पादः ।
१ रचनानुपपत्तेरित्यधिकरणम् । रचनानुपपत्तेश्च नानुमानम् ॥ २।२।१ ॥
स्वतन्त्रतया सर्वे वादा निराक्रियन्तेस्मिन्पाद। लोकानां भूर्भुनादीनामचेतनेन केवलेन प्रधानेन रचना नोपपद्यते । रचितत्वादेव न परिणामः । सर्वस्य संश्लेषप्रसंगात् । अतश्चेतनकर्तृका रचना नाचेतनन
20- reads सर्वगादा for सबै वादा ।
१७ ( अणुभाष्य