________________
१०
११ उपसंहारदर्शनाधिकरणम् । [ अ. २पा. १ सू. २६
देवादिवदपि लोके ॥ २।१।२५ ॥ स्वतोभिन्नकरणे दृष्टान्तः यथा देवर्षिपितरो बाह्यनिरपेक्षा एव स्वयोगबलेन सर्वं कुर्वन्ति । एवं ब्रह्माप्यनपेक्ष्य तत्समवायं स्वत एव सर्व करोति । २।१।२५ ॥
१२७
कृत्स्नप्रसक्तिर्निरवयत्वशब्दकोपो वा ॥ २।१।२६ ॥
1
यद्येकमेव ब्रह्म स्वात्मानमेव जगत्कुर्यात् तदा कृत्स्नं ब्रह्मेकमेव कार्यं भवेत् । अथांशभेदेन व्यवस्था तथा सति निरवयवत्वश्रुतिविरोधः । निष्कलं निष्क्रियं शान्तम् ( वे. ६/११ ) इति ॥ २।१।२६ ॥ श्रुतेस्तु शब्दमूलत्वात् ॥ २ ॥१।२७ ॥
तुशब्दः पक्षं व्यावर्तयति । श्रुतेः । श्रूयत एव द्वयमपि । न च श्रुतं युक्त्या बाधनीयम् । शब्दमलत्वात् । शब्दैकसमधिगम्यत्वात् । अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । ( म. पु. ११३।७ ) अर्वाचीनविकल्पविचारकृतर्कप्रमाणाभासशास्त्रकलिलान्तःकरणदुरवग्रहवादिनां वादानवसरे सर्वभवनसमर्थे ब्रह्माणं विरोधाभावाच्च ॥ एवं परिहृते दोषे स्वमत्यानुपपत्तिमुद्भाव्य सर्वसंप्लवं वदन्मन्दमतिः सद्भिरुपेश्यः ॥ २२११२७ ॥
आत्मनि चैवं विचित्राश्व हि ॥। २।१।२८ |
at देशकालापेक्षा नास्ति । आत्मन्येव सृष्टत्वात् । देशकालसृ-ष्टावप्यात्मन्येव साधिकरणस्य सृटत्वाच्च । बहिरन्तश्च जगत्सृष्टिं वा आह विशेषाभावेन-अनन्तरोबाह्य : (बृ. ४/५/१३ ) इति विरोधाभावो विचित्रशक्तियुक्तत्वात्सर्वभवनसमर्थत्वाच || २|११२८ ॥
स्वपक्षदोषाच || २।१।२९ ॥
२०
प्रधानवादिनोपि सर्वपरिणामसावयवत्वनित्यत्वादिदोषी दुष्परिहरः । युक्तिमूलत्वाच्च तस्य । अचिन्त्यकल्पनायां प्रमाणाभावाच्च ॥। २।१।२९ ॥। ११ ॥
6- Bom. लदी after कुर्यात् ।
141 roads बिबादानसमये for मरदानवसरे
W