________________
२ पा. १ . २१ ]
अणुभाष्यम् ।
१०
इतरव्यपदेशाधिकरणम् । इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २।१।२१ ॥
१२६
ब्रह्मणो जगत्कारणत्व इतरस्य जीवस्यापि ब्रह्मत्वात्तद्धितं कर्तव्यम् । तन्न करोतीति तदकरणादिदोषप्रसक्तिः । तत्सृवा तदेवानुप्राविशत् । ५ ( तै. २२६ ) अनेन जीवेनात्मनानुप्रविश्व नामरूपे व्याकरवाणि ( छां. ६ ३ २ ) इति तस्यैव जीवव्यपदेशात् || २|१|२१ ॥ अधिकं तु भेदनिर्देशात् ॥ २।१।२२ ॥
तुशब्दः पक्षं व्यावर्तयति । यदि ब्रह्म तावन्मात्रं भवेत्तदायं दोषः । तत्पुनर्जीवाज्जगतश्वाधिकम् । कुतः। भेदनिर्देशात् । द्रष्टव्यादिवाक्येषु १० कर्मकर्तृव्यपदेशाद् विज्ञानानन्दव्यपदेशाद्वा । न हि संपूर्णेशस्य हितं नियमेन करोति । सर्वेन्द्रियव्यापाराभावप्रसंगात् । स्वलीलयैकं तु करोत्येव || २|१|२२ ॥
अश्मादिवच्च तदनुपपत्तिः ॥ २।१।२३ ॥
पार्थिवत्वादिशेषेपि हीरमाणिक्यपाषाणानां पलाशचम्पकचन्द१५ नानामुच्चनीचत्वमेवं जीवस्यांशत्वाविशेषेपि ब्रह्मादिस्थावरान्तानामुञ्चनीचत्वम् । कार्यवैलक्षण्यं तदननुरोधश्च दर्शितः || २|१|२३|| १० ||
११ उपसंहारदर्शन । धिकरणम् ।
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥। २।१।२४ ॥
ब्रह्मैव केवलं जगत्कारणमित्युक्तम् । तन्नोपपद्यते कुलालादेश्व२० क्रादिसाधनान्तरस्योपसंहारदर्शनात्संपादनदर्शनादिति चेन्न । क्षीरवद्धि । यथा क्षीरं कर्तारमनपेक्ष्य दधिभवनसमये दधि भवति । एवमेव ब्रह्मापि कार्यसमये स्वयमेव सर्वं भवति || २|१|२४ ॥
7-क reads व्यपदेशात् for निर्देशात् ।
13- प्र. पु. reads तदुपपत्तिः for तदनुपपत्तिः । 16- प्र. पु. roads तद्नुरोधश्व for तदननुरोधव ।