________________
९ असयपदेशाधिकरणम्।
[म. २.पा. १ मू. २०
सत्त्वाचावरस्य ॥ २॥१॥१६॥ अवरस्य प्रपञ्चस्य सत्वाकालिकत्वाद् ब्रह्मत्वम् । सदेव सोम्येदमय आसीत् । यदिदं किंच तनत्यमित्याचक्षते (छां. ६।२६१) इति श्रुतेः ॥ २१॥१६॥८॥
९ अमद्यपदेशाधिकरणम् । अमद्यपदेशान्नेति चन्न धर्मान्तरण वाक्य
शेषात् ॥ २॥॥१७॥ असदा इदमग्र आनि ( न. २१७) इति श्रुत्या प्रागुत्पत्तेः कार्यस्यासत्त्वं बोध्यत इति चेन्न । अयाकृतत्वेन धर्मान्तरेण तथा व्यपदे"शः । कुतः । वाक्यशेषात् । तदात्मान' स्वयमकुरुत ( नै, २१७ ) इति स्वस्यैव क्रियमाणत्वात् । इदमासीत्पदप्रयोगाच ॥ २।१।१७ ॥
युक्तेः शब्दान्तराच्च ॥ २॥१॥१८॥ युक्तिस्तावत् समवेतमेव कार्य सदुत्पाद्यत इति संबन्धस्य द्विनिष्ठत्वान्नित्यत्वाच्च कारणान्तरेणापि परम्परया संबन्धः । असंबद्धोत्पत्तौ तु १५ मिथ्यात्वमेव । प्रवृत्तिस्त्वभिव्यक्त्यर्थमिति । शब्दान्तरं सच्छब्दादात्मशब्दः। आत्मान५ स्वयमकुरुत ( ते. २१७ ) इति ।। २।१।१८ ॥
पटवच्च ॥ २॥१९॥ यथा संवेष्टितः पटो न व्यक्तं गृह्यते विस्तृतस्तु गृह्यते तथाविर्भावानाविर्भावेन जगतोपि ॥ २।१।१९ ॥
___यथा च प्राणादिः ॥ २॥१॥२०॥
यथा प्राणापानानां नियमने जीवनमात्रम् । अनियमन आकुअनादि नैतावता प्राणभेदः पूर्वमसत्त्वं वा । तथा जगतोपि । ज्ञानक्रियाभेदात्सूत्रद्वयम् ॥ २।१।२०॥९॥
23-2 reads नैव तावता for नैतावता ।