________________
अ. २ पा. १ सू. १३] अणुमाग्यम् । भोक्तृत्वमापद्यते । अतो न विभाग इति चेत्स्याल्लोकवत् । यथा लोके कटककुण्डलादीनां सवर्णकारणत्वेन सुवर्णानन्यत्वेपि न कटकस्य कुण्डलत्वमेवं न भोग्यस्य भोक्तत्वम् ॥ २।१।१३ ॥ ७ ॥
८ तदनन त्याधिकरणम् । तदनन्यत्वमारम्भणशब्दादिभ्यः॥ २॥१॥१४॥
श्रुतिविरोधं परिहरति । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ( छां. ६।१।१ )इति । तत्र विकारो वाङ्मात्रेणैवारभ्यते न वस्तृत इत्यर्थः प्रतिभाति ।
तथाच सति कस्य ब्रह्म कारणं भवेत् । अतः श्रुतिवाक्यस्यार्थ.. माह । आरम्भणशब्दादिभ्यस्तदनन्यत्वं प्रतीयते । कार्यस्य कारणानन्यत्वं न मिथ्यात्वम् ॥
ये पुनर्मिथ्यात्वं तामसबुद्धयः प्रतिपादयन्ति तैर्ब्रह्मवादा: सूत्रश्रुतिनाशनेन तिलापःकृता वेदितव्याः । अन्तःप्रविष्टचोरवधार्थमेवैष आरम्भः।
अलौकिकप्रमेये सूत्रानुसारेणैव निर्णय उचितः । न स्वतन्त्रतया किंचित्प१५रिकल्पनम् । तर्काप्रतिष्ठानादिति निराकृतमेव । न वास्मिन्नपि सूत्रे मि
ध्यात्वार्थः संभवति । एकविज्ञानेन सर्वविज्ञानोपक्रमबाधात्प्रकरणविरोधश्च । त्रयविरोधभयपरित्यागेनैकमिदं सूत्रमन्यथा योजयन्नतिधृष्ट इत्यलं विस्तरेण ॥ २।१।१४ ॥
भावे चोपलब्धेः ॥ २॥१॥१५॥ भाव एव विद्यमान एव घटे घटोपलब्धिः । नाभावे । चकारास्मृत्तिकेत्येव श्रुतिः परिगृहीता । वामात्रेण चोपलम्भे मिथ्यैवात्र घटोप्यस्तीत्युक्त उपलभ्येत ॥
इदं सूत्रं मिथ्यावादिना न ज्ञातमेव । अत एव पाठान्तरकल्पनमिति ॥ २।१।१५ ॥
1 -A and Cread आपयेत for आपद्यते ।