________________
अ. १ '. २३ ]
अणुमाष्यम् ।
११६
एवं प्रकृतिकारणवादनिराकरणेन ब्रह्मण एव कारणत्वे सिद्धेध्यर्धजरतीयतयोभयस्थापनपक्षं परिहर्तुमधिकरणमारभते । ८ प्रकृतिश्चेत्यधिकरणम् ।
1
1
1
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ १।४।२३ ॥ ननु ब्रह्मकारणतां न निराकुर्मः श्रुतिसिद्धत्वात् । किंतु समवायिकारणं प्रकृतिरेव । कार्यकारणयोरवैलक्षण्यात् । समवायिकारणानुरोधि हि कार्यम् । अन्यत्सर्वं भगवानस्तु । अपेक्ष्यते च समवायिनिमित्तयोर्भेदः । कर्मण्यपि श्रुतिस्मृतिसमवायो धर्मे । एवं ब्रह्मवादेपि स्मृत्युक्ता प्रकृति: संमवायिकारणम् । ब्रह्म निमित्तकारणमित्येवं प्राप्ते । उच्यते । प्रकृतिश्च । १. निमित्तकारणं समवायिकारणं च ब्रह्मैव । प्रकृतिपदप्रयोगात्स्मृतिसिद्धतृतीयसर्वधर्मापदेशः । चकारात् यत्रेत्यादिसर्वसंग्रहः । कुत एतत् । प्रतिज्ञादृष्टान्तानुपरोधात् । प्रतिज्ञा - अपि वा तमांदशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतं भवत्यविज्ञातं विज्ञातं भवति ( छां. ६।१।२ ) इति । दृष्टान्तोयथैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् ( छां. ६ | १|४ ) इत्यादि । १५ प्रतिज्ञादृष्टान्तयोरनुपरोधोबाधनं तस्मात् । समवायिकारणज्ञाने हि कार्यज्ञानम्। उभयोर्ग्रहणमुपचारव्यावृत्त्यर्थम् । उपक्रमांपसंहारवत् । प्रतिज्ञामात्वेदृष्टद्वारापि भवेत् । दृष्टान्तमात्रत्वे त्वनुमानविधया स्यात् तथा सति सर्वसमानधर्मवद् ब्रह्म स्यान्न समवायिकारणम् । उभयोर्ग्रहणे तु प्रतिज्ञाया दृष्टमेव द्वारमिति समवायित्वसिद्धिः । कार्यकारणयोर्भेदाभेदमतनि२. राकरणाय पिण्डमणिनखनिकृन्तनग्रहणम् ॥
1
२५
1
तथा सति यत्र वचिद् भगवाञ्ज्ञातः सर्वत्र ज्ञातो भवति । सर्वं च ज्ञातं भवतीति सामान्यलक्षणप्रत्यासत्तिनिराकरणाय च - वाचारम्भणं विकारो नामधेयम् (छां. ६।१।४ ) इति ।
अलीकत्वनिराकरणाय च मृत्तिकेत्येव । ब्रह्मत्वेनैव जगतः सत्यत्वं
नान्यथेति । सामान्यलक्षणप्रत्यासत्तिनिराकरणं च स्पष्टमेवाग्रे त्रीणि
19-6 roads समचापत्यविद्धिरिति for समवायित्वमिद्धिः ।