________________
१०
११३.
७ वाक्याम्वयाधिकरणम् ।
७ वाक्यान्वयाधिकरणम् । वाक्यान्वयात् ॥ १।४।१९ ॥
पुनर्जीवब्रह्मवादेन प्रकृतिकारणवादमाशङ्कय निराकरोति । बृहदारण्यके चतुर्थे षष्ठे च याज्ञवल्क्यमैत्रेयीसंवादे - येनाहं नामृता स्यां ५ किमहं तेन कुर्याम् (बृ. ४/५/४ ) इति विरक्तिमुक्त्वा - यदेव भगवान्वेद तदेव मे ब्रूहि (बृ. ४/५/४ ) इति पृष्टे तामभिमुखीकृत्य-न वारे पत्युः कामाय (बृ. ४/५/६ ) इत्यादिनामृतत्वाय ज्ञानमुपदिशति । षष्ठे पुनरुपसंहारेपि - एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राज ( बु. ४/५/१५ ) इति ।
१५
[ अ. १ पा. ४. १९
तत्र जीवस्य प्रकरणित्वं ब्रह्मणो वेति संशयः । तत्रात्मनः प्रियत्वं स्वप्रतीत्या पुत्राद्यपेक्षया बोधयञ्जीवमेवोपक्रम आत्मत्वेन वदति । तदनु तत्र दर्शनादि विधत्ते । तेन सर्वं विदितामिति फलमाह । तत्र कथमात्मज्ञानेन सर्वज्ञानमित्याकाङ्क्षायां - ब्रह्म तं परादात् (बृ. ४/५/७ ) इत्यादिना-इदं सर्वं यदयमात्मा ( . ४/५/७ ) इत्यन्तेन तस्यैव सर्वत्वमाह ।
तदनु कथमस्मिन्संघात आत्मज्ञानं भवतीत्याकाङ्क्षायां दुन्दुभ्यादिदृष्टान्तत्रयमाह । परम्परया बाह्याभ्यन्तरभेदेन यथा महाकोलाहले दुन्दुभेर्हन्यमानस्य शब्दो गृहीतो भवति । तत्र करणं दुन्दुभिदर्शनं दुन्दुभ्याघातदर्शनं वा । अनुमानद्वारा चित्ते तत्र निविष्टे तत्साक्षात्कारो भवतीति । तथात्मनो बोधककार्यानुसंधाने तत्साक्षात्कारो भवतीति । तत्र कथं २० सर्वत्वमित्याकाङ्क्षायां तत एवोत्पन्नं सर्वं नामरूपं तस्मिन्नेव लीयत इति ।
स यथेतिद्वयेनाह । मध्ये स एव नातिरिक्तं विशतीति स यथा सैन्धवघन इत्यनेनाह । आधेयत्वेन तावन्मात्रतानिराकरणायाह । न प्रेत्य संज्ञास्तीति । कार्यातिरिक्तरूपं कथयितुं न शक्यत इति तत्र विशेषाका - ङ्खायामतिरिक्ताकथने वञ्चकत्वमाशङ्कय तत्परिहारायाह । स होवाचेति ।
3- C reads परिहरति for निराकरोति ।
11-C reads त्वघतीत्या for स्वप्रतीत्या । 42- C and Dread सावन्मात्र for तावन्मात्रता ।
१५ [ अणुभाग्य ]