________________
अ. १ पा.
सू. १७]
अणुभाष्यम्।
११२
एव नान्यस्मादिति । अतोस्माद् ब्रह्मवाद एव सिध्यति । न प्रकृतिवादः ॥ १।४।१७॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि
चैवमके ॥ १।४।१८॥ ५ स्वमतेन परिहारमुक्त्वा नियतधर्मवादेनापि परिहारमाह । स्वाप - प्रतिबोधौ जीवधर्मावेव । चक्षुरादिलयाधारत्वं प्राणस्येति । तस्मिन्नपि गवे. न्यार्थं तद्धर्मकीर्तनम् । भेद हि तन्निराकरणमवश्यं कर्तव्यमिति तुशन्दः । ब्रह्मप्रतिपत्त्यर्थमेव जीवलयोद्गमौ मृतिवैलक्षण्येन । प्राणकीर्तनमाश्रयब्रह्मबोधाय । कुत एतदवगम्यते । तत्राह । उपक्रमोपसंहाराभ्यामेवावगम्यते । यो व बालाक एतेषां पुरुषाणामित्युपक्रमे मुख्यं ब्रह्मैव निर्दिष्टम् । तज्ज्ञानेनासुरजयः । सर्वेषां भतानां श्रेष्ठव्यं स्वाराज्यमाधिपत्यं चेति फलम् । न ह्येतद्वयममुख्ये संभवति । अपिच । प्रश्नव्याख्यानाभ्याम् । कैष एतद्वालाक पुरुषोशयिष्टेति प्रश्नः । तत्र जीवस्य ज्ञातत्वादधिकरणमेव न ज्ञातम् । यत्रैष एतद्वालाके पुरुषोशयिष्ट ( कौ. ४।१९) इति व्याख्यानम् । न हि नाडीपियितुं व्याख्याति किंतु प्रतिज्ञातं ब्रह्म । कथमेतदवगम्यत नाडीव्यतिरिक्त आत्मा ज्ञाप्यत इति । तत्राह । एवमेके । एके शाखिना वाजसनेयिनः । तत्रापि दृप्तवालाकिब्राह्मणे-स होवाचाजातशत्रुर्यत्रीप एतत्सुप्नोभद् य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञान
मादाय य एषान्तर्हृदय आकाशस्तस्मिञ् शेते ( बृ. २।१।१७ ) इत्यत्र-- २. आकाशशब्दं ब्रह्म सता साम्य तदा संपन्नो भवति (छां. ६।८।१ )
इति च । स्वं पपीतो भवति ( छां. ६।८।१ ) इति च । तस्मादाधारभतब्रह्मज्ञापनार्थत्वाज्जीवमुख्यप्राणलिङ्गात् प्रकृतिवाद इत्यसंगतम् ॥ १।४।१८॥६॥