________________
५
1
६ जगद्वाचित्वाधिकरणम् । [ अ. १ पा. ४ . १७ आदित्यादिदक्षिणेक्षिपुरुषपर्यन्तपरिच्छिन्नब्रह्मोपासनान्युक्त्वा तथा निरा कृते तमेव ज्ञानार्थमुपससाद । ततः सप्तपुरुषसमीपमुभावागत्य ब्रह्मवाद्यं चक्रतुः । तत्र - ष एतद्बाला के पुरुषोशयिष्ट ( कौ. ४ । १९ ) इत्यादौ जीवः प्रक्रान्तः । तस्मादेवं सर्वोत्पत्तिरुक्ता । ब्रह्मणोप्यनुप्रवेशश्व । तत्र संदेहः । जीव एव ब्रह्मसहितः कर्ता ब्रह्मैव वेति । तत्र जीव एव कर्ता । सर्वस्य जगतो ब्रह्मत्वादयस्तस्य धर्माः । राजत्ववद् यजमानत्ववद्वा । अस्मिन्प्रकरणे ब्रह्मोपक्रमेण जीवपर्यवसानोक्तेः सर्वत्रैव ब्रह्मत्वेनोक्तो जीव एव कर्ता । तथा सति लोकेपि जीवकर्तृत्वं सहजं भवेत् । बन्धमोक्षव्यवस्था च । एवं सत्यर्थात्प्रकृतेरेव फलिष्य१० तीत्येवं प्राप्ते । उच्यते । जगद्वाचित्वात् । एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्मेत्युपक्रम एतच्छब्देन जगदुच्यते । पुरुषशब्देन च जीव: । तज्जडजीवात्मकं जगद् ब्रह्मकर्तृकमिति हि पूर्वसिद्धम् । तदनुरोधेनात्रापि ब्रह्मपरत्वमेवोचितं न तु सर्वविप्लवश्रुतकल्पना च । अतः सुषुप्तावपि ब्रह्मण्येव लयस्तस्मादेव सर्वमिति ज्ञातव्यम् । प्राणात्मशब्दवाच्यत्वं तु पूर्वमेव सिद्धम् । १५ तस्मान्न जीवाधिष्ठिता प्रकृति: कारणम् ॥ १।४।१६ ।। जीवमुख्यप्राणलिङ्गादिति चेत्तद् व्याख्यातम् ॥ १|४|१७ ॥
किंचिदाशङ्कय परिहरति । नन्वत्र जीव एव प्रक्रान्तः । क्ष एतद्वालाके पुरुषोशष्टि (को. ४।१९ ) इति । ब्रह्म त्वद्यापि न सिद्धम् - एतादृशं नैतादृशमिति । अतः शयनात्थानलक्षणजीव धर्मदर्शनात्तस्यैव २. ब्रह्मत्वं जगत्कर्तृत्वं च । तत्स्वतोनुपपन्नं प्रकृतौ फलिप्यति । अथवा मुख्यप्राणलिङ्गमप्यत्रास्ति । प्राण एवैकधा भवतीति सुषुप्तौ तस्यैव प्रवृत्तिरुपलभ्यते । विद्यमानादेव सर्वोत्पत्तिप्रलयौ । स च प्रकृत्यंशोतो जडादेव प्रधानात्सुष्टावपि सर्वोत्पत्तिः । अतोस्मात्प्रकरणाज्जीवद्वारा साक्षाद्वा प्रकृतेः कारणत्वमित्येवं प्राप्ते । उच्यते । तद्व्याख्यातम् । एतयोरु२५ मयलिङ्गत्वमेव नास्तीत्याश्रयत्वादिह तद्योगादित्यत्र सर्वमेव कार्यं भगवत
1
१११
12-A and C om. हि after इति । reads तदनुरोधेनापि for तदनुहोघेनात्रापि ।