________________
. . . . सू. १५] अणुभाप्यम् । ब्रह्मणोपि विगानं श्रूयते । तदैक आहुः इति कर्मवत्पक्षान्तरं संभवति । न ह्यसत्तमः शब्दब्रह्म प्रतिपादयितुं शक्यते । असन्नेव स भवति (तै. २६) इति बाधात् । आदित्यवर्णं तमसः परस्तात् ( श्वे. ३१८ ) इति च । तस्मात्कारणत्वेनापि श्रुतिविप्रतिषेधाद् ब्रह्म कारणं नेत्येवं प्राप्ते । ५ उच्यते। समाकर्षात् । आकृष्यते स्वस्थानाच्च्याव्यत इत्याकर्षः । सर्वेप्येतेषु वाक्येष्वसदादिपदानां न निरात्मकत्वाद्यर्था उच्यन्ते । किंतु वैलक्षण्येन । सर्वशब्दवाच्यत्वं च सिद्धं ब्रह्मणः। यथा-को अद्धा वेद । क इह प्रवोचेत्। (ऋ. सं. ३५४।५) सर्वे वेदा यत्पदमामनन्ति (कठ. १।२।१५)
यतो वाचो निवर्तन्ते (ते. २।९ ) मनसैवानुद्रष्टव्यः (बु. ४।४।१९) १० इत्यादि सर्वे विरुद्धधर्मा भगवत्युच्यन्ते । एवमनेकविरुद्धशब्दवाच्यत्वं
लोकप्रसिद्धतादृशार्थात्समाकर्षादवगम्यते । तं यथा यथोपासते तथा भवतीति फलज्ञापनार्थम् । असन्नेव स भवति ( तै. २१६ ) इति । यथा कंसादीनां मारकः । तदैक आहुरित्यत्र सर्वप्रपञ्चवैलक्षण्यम् । प्रपञ्च
रूपोपि स इति प्रथमः पक्षः । अव्याकृतमसत्पक्षेण तुल्यम् । नासदासी१५ दिति मनस्तदपि ब्रह्म तमासीदित्यनाभिव्यक्तम् । कर्मणोपि भगवत्त्वात । पूर्वकाण्डेपि तस्मादेव सृष्टिः । न हि तमस्त: म्वेन गढत्वं लोके संभवति । अतः क्वचिद्विलक्षणात क्वचिदविलक्षणाद ब्रह्मणो जगत् । भगवत्त्वादेव स्वयंकर्तृकता च । संभवति चैकवाक्यत्वेज्ञानान्निराकरणं
चायुक्तम् । तस्माच्छन्दवैलक्षण्येन श्रुतिविप्रतिषेधो वक्तुं न शक्य इति २० सिद्धम् ॥ १।४।१५॥५॥
६ जगद्वाचित्वाधिकरणम् ।
जगदाचित्वात् ॥ १॥४॥१६॥ एवं शब्दविप्रतिषेधं परिहत्यार्थविप्रतिषेधं परिहरति । कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे बालाकिरजातशत्रवे ब्रह्मोपदेष्टुमागतः।
17-A and क om. कचिदविलक्षणात् before ब्रह्मणो।