________________
५ समाकर्षाधिकरणम्। (अ. १ पा. स. १५ नाम्तीत्यधिकरणमारभते । तत्र श्रुतौ सृष्टिभेदा बहवः । क्वचिदाकाशादिका । आत्मन आकाशः संभतः (ते. २११) इति । क्वचितेजःप्रभृतिका । तत्तेजोसृजत ( छां. ६।२।३) इति । क्वचिदन्यथैव । एतस्माज्जायते प्राणः ( मुं. ५।१।३ ) इति । इदः सर्वमसृजत ( बृ. १।२।५ ) इति ५ च । एवं क्रमव्युत्क्रमानेकविधसृष्टिप्रतिपादकत्वाद वस्तुनो द्वैरूप्यासंभवाद-ग्रहा न्वा अन प्रजापशवः प्रजायन्त इतिवत्सृष्टिवाक्यानामर्थवादत्वेन ब्रह्मस्वरूपज्ञानार्थत्वादध्यारोपापवादन्यायेन न वदान्तब्रह्मकारणत्वं सिद्ध्यति । अतः परिदृश्यमानजगतः कारणान्वषणे क्रियमाणे बाह्याबा
ह्यमतभेदेषु सत्सु कपिलस्य भगवज्ज्ञानांशावतारत्वात तन्मतप्रकारेणव १० जगद्व्यवस्थोचितेत्येवं प्राप्न । उच्यते । न सृष्टिभेदेषु ब्रह्मणः कारणत्व विप्रतिपत्तिः । सर्वप्रकारेषु तस्यैव कारणत्वोक्तेः । आकाशादिषु कारणत्वेन ब्रह्म यथाव्यपदिष्टमेवैकत्र । अन्यत्रापि नदेव कारणत्वेनोक्तम् । न तस्य कार्य करणं च विद्यते ( श्वे. ६।८ ) इत्यादिनिराकरणं तु लौकि
ककर्तृत्वनिषेधपरम् । तस्यैव प्रतीतेः । सर्ववलक्षण्यार्थं वैदिकानामबाधि१५ तार्थंकवाक्यत्वस्याभिप्रेतत्वादिति चकारार्थः । कार्यप्रकार भेदस्तु माहा
म्यज्ञापको न तु बाधकः । बहुधा कृतिसामर्थ्य लोकेपि माहात्म्यसूचकमिति । तस्मान्न श्रुतिविप्रतिषेधात्स्मृतिपरिग्रह इति · सिद्धम् ॥ १।४।१४॥४॥
५ समाकर्षाधिकरणम् ।
ममाकर्षात् ॥ १॥४॥१५॥ पुनरन्यथाशङ्कय परिहरति । ननु क्वचिद्-असद्वा इदमग्र आसीत् ( ते. २१७) इति । क्वचित्-सदेव सोम्येदमग्र आसीत् । तदैक आहुरसदेवेदमग्र आसीत् । ( छां. ६।२।१ ) अव्याकृतमासीत् । नासदासीनो सदासीत् । तम आसीत् (ऋ. सं. १ २११२९।१ ) इत्यादिवाक्येषु
7-A and Cread वेदाइब्रह्मणः कारणावं for वेदान्तब्रह्मकारणत्वं ।