________________
अ. १ पा. सु. १२ |
रेण । तेन तेषां करणान्तरापेक्षाभावात् प्राणादीनां पुनः प्राणादिमत्त्वं बाधितं स्यात् । भगवतो माहात्म्यविरोधश्व । अतः स्वार्थनिर्वाहार्थमन्यार्थो वर्तते पञ्चजनवाक्यस्य च । अता बुद्धेः पञ्च वृत्तीर्जनयन्तीति प्राणादयः पञ्चजनाः । संशयोथ विपर्यासा निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते ५ बुद्धेर्लक्षणं वृत्तितः पृथक ( भा. ३।२६ ३० ) इति । तेषां तत्तत्प्रकारकं स्वकार्यजननं न स्वतः किंतु भगवत इति द्वयोरेकार्थत्वं सर्वं संगतं स्यात् । खण्डत्वाच्च शेषत्वम् । सर्वप्रवृत्तिकत्वाद्भगवतो न माहात्म्यविरोधः । तत्र प्राणशब्देन त्वग्घ्राणप्राणा गृहीताः । रसना चान्ने प्रतिष्ठिता इत्यन्नं गृहीतम् । वाग्वा तेजसि । अत्ता चान्नं चैकत्र भवतः । सहभा१० वित्वात् । क्वचिदकग्रहणं क्वचिदुभयग्रहणमिति । तेन ते सर्वे पञ्चैव भवन्त्यतिरिच्यते परमाकाशः । तस्मात्प्राणादय एव पञ्चजना इति न तन्मतसिद्धिः || १।४।१२ ॥
अणुभाष्यम् ।
२०
१०८
ज्योतिषैकेषामसत्यन्नं ॥ १|४|१३ ॥
काण्वपाटे-अन्नस्यान्नमिति नास्ति तदा कथं पञ्च । तत्राह । १५ ज्योतिषा संख्यापतिस्तेषाम् । यस्मादर्शक संवत्सर इति पूर्व पठितो मन्त्रः । तत्र तदेवा ज्योतिषां ज्योति: ( वृ. ४|४|१६ ) इत्यन्नरथाने ज्योतिर्ग्राह्यम् । व्याख्यानं पूर्वमेव । तस्मादसिद्धं तन्मतस्य श्रुतिमूलत्वम्
|| ४|४|१३ || ३ ॥
४ यथाव्यपदिष्टाधिकरणम् ।
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टाः ॥ १।४।१४ ॥ श्रुतिविप्रतिषेधात्स्मृतिरेव ग्राह्येति मतं दर्शक श्रुतिविप्रतिषेधो
1-A. C, 1 and read तत्र for तेन ।
7--A und ( read सर्वप्रवर्तकत्वात for सर्वप्रवृत्तिका |
10 - A and Cred तेनेते for तेन ते ।
17-0 reads सिद्धं न तन्मतस्य for असिद्धं तन्मतस्य ।